महासुभाषितसंग्रह · श्लोक 8376-8395
कण्टकेनापि ये स्पृष्टा यान्ति कामपि विक्रियाम् ।
तेऽपि शस्त्रनिकृन्तस्य पशोर्मांसानि भुञ्जते ॥
कण्टकेनापि विद्धस्य महती वेदना भवेत् ।
चक्रभीषणखड्गाद्यैर् मार्यमाणस्य किं पुनः ॥
कण्टकैरिव विदारितपादः पद्मिनीपरिचितैरपराद्रेः ।
आरुरोह सरसीरुहबन्धुः स्कन्धमम्बुधितटीगमनाय ॥
कण्टको दारुखण्डं च वितनोति गलव्यथाम् ।
व्यञ्जनान्तर्निपतितस् तालु विध्यति वृश्चिकः ॥
कण्टक्यकण्टकानां व्यत्यासेऽम्भस्त्रिभिः करैः पश्चात् ।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥
कण्टारिकाया अन्योक्तिः सणान्योक्तिरुदाहृता ।
धत्तूरपादपान्योक्तिर् अवधेया तृणोक्तयः ॥
कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् ।
अप्युपात्तममृतं भवद्वपुर्- भेदवृत्ति यदि मे न रोचते ॥
कण्ठगतैरप्यसुभिः कस्यात्मा नोपसर्पते जातु ।
मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य ॥
कण्ठग्रहं न वात्येव भर्तुः क्रुद्धापि यत्नतः ।
कङ्कणश्रेणिकेवासौ दोषमेवावलम्बते ॥
उन्मत्तेव प्रमत्तेव प्रहृष्टेवातुरेव च ।
न शक्योपासितुं रामा प्रौढं यौवनमाश्रिता ॥
सुखदुःखप्रदायिन्यस् तृतीये यौवने स्थिताः ।
जायन्ते गहना रामाः संसारस्येव रीतयः ॥
कण्ठग्रहे शिथिलतां गमिते कथंचिद् यो मन्यते मरणमेव सुखाभ्युपायम् ।
गच्छन् स एष न बलाद् विधृतो युवाभ्याम् इत्युज्झिते भुजलते वलयैरिवास्याः ॥
कण्ठच्छायमिषेण कल्परजनीमुत्तंसमन्दाकिनी- रूपेण प्रलयाब्धिमूर्ध्वनयनव्याजेन कल्पानलम् ।
भूषापन्नगकेलिपानकपटादेकोनपञ्चाश तं वातानप्युपसंहरन्नवतु वः कल्पान्तशान्तौ शिवः ॥
कण्ठच्छेदविशीर्यमाणरुधिरप्राग्भारभग्न् अद्युतेर् येन स्मेरमुखेन होमशिखिनः संधुक्षणाकाङ्क्षिणा ।
भ्रूभङ्गः शितिकण्ठकण्ठफणिने फूत्कारहेतोः कृतः शौटीर्यव्रततुष्टधूर्जटिरसौ किं वर्ण्यते रावणः ॥
कण्ठच्छेदे सुवर्णं चेत् क्षुरं यद्वद्धितं न हि ।
बन्धुरप्यपकारी चेत् सर्वैस्त्याज्यस् तथैव सः ॥
कण्ठमाकुञ्च्य हृदये स्थापयेद् दृढमिच्छया ।
जालंधरो बन्ध एष सुधाव्ययनिवारणः ॥
कण्ठश्रियं कुवलयस्तबकाभिराम- दामानुकारिविकटच्छविकालकूटाम् ।
बिभ्रत् सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिर्वः ॥
कण्ठश्लेषं समासाद्य तस्याः प्रभ्रष्टयानया ।
तुल्यावस्था सखीवेयं तनुराश्वास्यते मम ॥
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः ।
प्रार्थयन्त शयनोत्थितं प्रियास् तं निशात्ययविसर्गचुम्बनम् ॥
कण्ठस् तस्याः कुवलय्दृशः काञ्चनः कोऽपि कम्बुर् लावण्याम्बुस्मरनरपतेरर्घ्यमाविः करोति ।
तिस्रो रेखास्त्रिभुवनजयव्यञ्जिकास् तत्र तत् किं न स्यान्मध्ये त्रिवलिरचना पौनरुक्त्याय धातुः ॥
कण्ठस्था या भवेद् विद्या सा प्रकाश्या सदा बुधैः ।
या गुरौ पुस्तके विद्या तया मूढः प्रतार्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0