भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8396-8415

8396

कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥

8397

कण्ठस्य विदधे कान्तिं मुक्ताभरणता यथा ।
तस्याः स्वभावरम्यस्य मुक्ताभरणता तथा ॥

8398

कण्ठादूर्ध्वं विनिर्याति प्राणा याञ्चाक्षरैः सह ।
ददामीत्यक्षरैर्दातुः पुनः श्रोत्राद् विशन्ति ते ॥

8399

कण्ठाद्रक्तं पिबति गुणिनां मद्यमांसं न भुङ्क्ते विष्णुद्रव्यं हरति कुरुते द्वादशीषूपवासम् ।
सांख्यं श्रुत्वापहरति गवां ब्राह्मणानां च वृत्तिं पापो दम्भः कलियुगसखः कस्य मित्रं नियोगी ॥

8400

कण्ठान्तः क्वणितं दिवाकरकरक्लान्त्या रजोविप्लवैस् तन्नेत्राञ्चलकुञ्चनं शितकुशप्रान्तक्षतैः सीत्कृतिः ।
श्वासोर्मिप्रभवो वनेचरभिया त्वद्वैरिवामभ्रुवाम् एवं देव मरोस्तटेऽपि सुरतक्रीडानुरूपः क्रमः ॥

8401

कण्ठालंकारघण्टाघणघणरणिताध्मातरोदःकटाहः कण्ठेकालाधिरोहोचितघनसुभगं भावुकस्निन्धपृष्ठः ।
साक्षाद् धर्मो वपुष्मान् धवलककुदनिर्धूतकैलासकूटः कूटस्थो वः ककुद्मान् निबिडतरतमःस्तोमतृण्यां वितृण्यात् ॥

8402

कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसंगमसौभगं च सततं मत्प्रेयसीनां पुरः ।
प्राप्तुं कोऽयमितीर्ष्ययेव यमुनाकूले बलाद्यः स्वयं गोपीनामहरद् दुकूलनिचयं कृष्णः स पुष्णातु नः ॥

8403

कण्ठावसक्तमृदुबाहुलतास् तुरङ्गाद् राजावरोधनवधूरवतारयन्तः ।
आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥

8404

कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणीतटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः ।
द्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यजदाशु काञ्चनपटं व्रीडाकुलापि क्षणम् ॥

8405

कण्ठे क एष तव वल्लभ नूपुरोऽयं तत् पादभूषणमयं वलयस् तदानीम् ।
इत्यादिवाच्यमविभाव्य वचो मृगाक्ष्या ज्ञानेऽपि तद्विहृतमुत्सुकतां तनोति ॥
कण्ठे कृत्तावशेषं कनकमयमधः शृङ्खलादाम कर्षन् क्रान्त्वा द्वाराणि हेलाचलचरणरणत्किङ्कणीचक्रवालः ।
दत्तातङ्कोऽङ्गनानामनुसृतसरणिः संभ्रमादश्वपालैः प्रभ्रष्टोऽयं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः ॥

8406

कण्ठे गद्गदता स्वेदो मुखे वैवर्ण्यवेपथू ।
म्रियमाणस्य चिह्नानि यानि तान्येव याचतः ॥

8407

कण्ठे चिन्तामणिर्ज्ञेयश् चिन्तितार्थप्रदः सदा ।
आवर्तः पृष्ठवंशे यः स सूर्याख्यः शुभः स्मृतः ॥

8408

कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ संतापस्त्वयि मानसं नयनयोरच्छिन्नधारं पयः ।
सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस् तस्याः संप्रति जीविते बत सखीवर्गो निरालम्बनः ॥

8409

कण्ठे मदः कोद्रवजो हृदि ताम्बूलजो मदः ।
लक्ष्मीमदस् तु सर्वाङ्गे पुत्रदारमुखेष्वपि ॥

8410

कण्ठे मौक्तिकमालिकाः स्तनतटे कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके वलयिताः पाणौ मृणालीलताः ।
तन्वी नक्तमियं चकास्ति शुचिनी चीनांशुके बिभ्रती शीतांशोरधिदेवतेव गलिता व्योमाग्रमारोहतः ॥

8411

कण्ठे रज्जुं बद्ध्वा मृतस्य पुंसस् तु रज्जुमादाय ।
तस्याः खण्डं कण्ठे बद्धं गण्डस्रजं हरति ॥

8412

कण्ठे वसन्ती चतुरा यदस्याः सरस्वती वादयते विपञ्चीम् ।
तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥

8413

कण्ठोचितोऽपि हुंकृति- मात्रनिरस्तः पदान्तिके पतितः ।
यस्याश् चन्द्रशिखः स्मर- भल्लनिभो जयति सा चण्डी ॥

8414

कण्डूयते दक्षिणपाणिना चेत् स सारमेयो वदनं तदानीम् ।
भक्तैः प्रभूतैः सह भूमिपालैर् भोज्यानि भक्ष्याणि चिरं भवन्ति ॥

8415

कण्डूलद्विपगण्डपिण्डकषणाकम्प् एन सम्पातिभिर् धर्मस्रंसितबन्धनैः स्वकुसुमैरर्चन्ति गोदावरीम् ।
छायापस्किरमाणविष्किरमुखव्याकृष्टकीटत्वचः कूजत्क्लान्तकपीतकुक्कुटकुलाः कूले कुलायद्रुमाः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc