भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8356-8375

8356

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविद् आहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥

8357

कट्वेर्वारौ यथा पक्वे मधुरः सन् रसोऽपि न ।
प्राप्यते ह्यात्मनि तथा नापक्वकरणे ज्ञता ॥

8358

कठिनं वा मधुरं वा प्रस्तुतवचनं मनोहारि ।
वामे गर्दभनादश् चित्तप्रीत्यै प्रयाणेषु ॥

8359

कठिनः कृशमूलश्च दुर्लभो दक्षिणेतरः ।
कश्चित् कल्याणगोत्रोऽपि मनुष्यैर्नोपजीव्यते ॥

8360

कठिनकुचौ तव बाले तरलसरोजाक्षि तावकं चक्षुः ।
कुटिलसुकेशि कचास् ते मिथ्या भणितं कृशाङ्गि तव मध्यम् ॥

8361

कठिनतरदामवेष्टन- लेखासंदेहदायिनो यस्य ।
राजन्ति वलिविभङ्गाः स पातु दामोदरो भवतः ॥

8362

कठिनस्यापि हृदयं गुणवानार्द्रयेद् दृशा ।
चन्द्रकान्तोपलं चन्द्रः स्वांशुभिर्द्रावयत्यसौ ॥

8363

कठिनहृदये मुञ्च क्रोधं सुखप्रतिघातकं लिखति दिवसं यातं यातं यमः किल मानिनि ।
वयसि तरुणे नैतद् युक्तं चले च समागमे भवति कलहो यावत् तावद् वरं सुभगे रतम् ॥

8364

कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रयां पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् ।
किमिदमथ वा सत्यं मुग्धे त्वयाद्य विनिश्चितं यदभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥

8365

कठिनास्तीक्ष्णवक्त्राश्च तीक्ष्णोदर्कास् तथैव च ।
गणकैः किं नु लेखन्यस् ता वा किं ते विनिर्मिताः ॥

8366

कठिने दुर्गमे वासो गुप्तशक्तिप्रकाशनम् ।
रणे पुत्रः यथा शोच्यः कलहं वेश्यया सह ॥

8367

कठोरनखराहतद्विरदकुम्भपीठस्थली- लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी ।
गभीररवकातरातुरतरातुरव्याहृतैः पतन् हरिणकैः समं समरभूमिकां लज्जते ॥

8368

कठोरपारावतकण्ठमेचकं वपुर्वूषस्कन्धसुबन्धुरांसकम् ।
प्रसन्नर्सिहस्तिमितं च वीक्षितं ध्वनिश्च मङ्गल्यमृदङ्गमांसलः ॥

8369

कठोरास्थिग्रन्थिव्यतिकररणत्कारमुखरः खरस्नायुच्छेदक्षणविहितवेगव्युपशमः ।
निरातङ्कः पङ्केष्विव पिशितपिण्डेषु विलस- न्नसिर्गात्रं गात्रं सपदि लवशस् ते विकिरतु ॥

8370

कण इव पुरां वह्नेर्भस्मावधूलनसङ्गतो जयति बहलालोकस्फारावधूतनिशोदयः ।
स्मरहरजटाबन्धग्रन्थिर्भुजङ्गफणामणि- स्त्रिदशतटिनीपूरानीतः स्फुरन्निव तारकः ॥

8371

कणाचामतुषाङ्गारान् यत्नेन परिरक्षसि ।
मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥

8372

कण्टकस्य तु भग्नस्य दन्तस्य चलितस्य च ।
अमात्यस्य च दुष्टस्य मूलादुद्धरणं सुखम् ॥

8373

कण्टकान् कूपमग्निं च वर्जयन्ति यथा नराः ।
तथा नृशंसकर्माणं वर्जयन्ति नरा नरम् ॥

8374

कण्टकावरणं यादृक् फलितस्य फलाप्तये ।
तादृग् दुर्जनसङ्गोऽपि साधुसङ्गाय बाधनम् ॥

8375

कण्टकिततनुशरीरा लज्जामुकुलायमाननयनेयम् ।
तव कुमुदिनीव वाञ्छति नृचन्द्र बाला करस्पर्शम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc