महासुभाषितसंग्रह · श्लोक 8156-8175
एषा व्रजन्ती ललितं स्मयन्ती सखीजनैः सार्धमतिप्रगल्भा ।
सुरीव नित्यं सुरतासुखाप्ता विभाति भूमीधरपाठकस्त्री ॥
एषा सा विन्ध्यमध्यस्थलविपुलशिलोत्सङ्गरङ्गत्तरङ्गा संभोगश्रान्ततीराश्रयशबरवधूशर्म दा नर्मदा च ।
यस्याः सान्द्रद्रुमालीललिततलमिलत्सुन्दरीसंनिरुद्धैः सिद्धैः सेव्यन्त एते मृगमृदितदलत्कन्दलाः कूलकच्छाः ॥
एषासि वयसो दर्पात् कुलपुत्रानुसारिणी ।
केशेषु कुसुमाढ्येषु सेवितव्येषु कर्षिता ॥
एषा हि प्रकृतिः स्त्रीणाम् आसृष्टे रघुनन्दन ।
समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च ॥
एषा हि मे रणगतस्य दृढा प्रतिज्ञा द्रक्ष्यन्ति यन्न रिपवो जघनं हयानाम् ।
युद्धेषु भाग्यचपलेषु न मे प्रतिज्ञा दैवं यदिच्छति जयं च पराजयं च ॥
एषु स्पर्शो वरस्त्रीणां स्वान्तहारी मुनेरपि ।
अतोऽप्रमत्तः सेवेत विषयांस् तु यथोचितान् ॥
एषैव काचन विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा ।
यः पश्यति क्षणमिमां कथमन्यथासौ कामस् तमस्तकरुणं तरुणं निहन्ति ॥
एषैव महती लज्जा सदाचारस्य भूपतेः ।
यदकालभवो मृत्युस् तस्य संस्पृशति प्रजाः ॥
एषैव योषितां धन्या शीलं च लभते सुखम् ।
दिवा पतिव्रता भूयो नक्तं च कुलटा यतः ॥
एषोऽग्निहोत्रीति बिभर्ति गास्ता विक्रीय दुग्धं सलिलं जुहोति ।
ख्यातोऽस्ति लोकेष्वृतुकालगामी रजस्वलां याति दिवापि वेश्याम् ॥
एषोज्जटस्य भवतो गृहिणी त्वपर्णा स्थाणुः स्वयं तव च सूनुरसौ विशाखः ।
त्वत्तः फलं क इह वाञ्छति वामदेव जन्मक्षयः परमसौ तव दर्शनेन ॥
एषोत्तुङ्गतरङ्गलङ्घिततटोत्सङ्गा पतङ्गात्मजा पूर्णेयं तरिरम्बुभिर्न हि हरेः शङ्का कलङ्कादपि ।
काठिन्यं भज नाद्य सुन्दरि वयं राधे प्रसादेन ते जीवामः स्फुटमातरीकुरु गिरिद्रोणीविनोदोत्सवम् ॥
एषोऽम्बुदनिःस्वनतुल्यरवः क्षीबः स्खलमानविलम्बगतिः ।
श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रति मोटयति द्विरदः ॥
एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती ।
स्वप्नेऽनिरुद्धघटनाधिगताभिरूप- लक्ष्मीफलामसुरराजसुतां विधाय ॥
एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
तेषां वै समवेतानाम् अपि कश्चिद् गयां व्रजेत् ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ।
यत्रासौ प्रथितो लोकेष्व् अक्षय्यकरणो वटः ॥
एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि ।
अधुना तदेव कारणम् अवस्थितौ दग्धगेहपतेः ॥
एष्यन्ति यावद् गणनाद् दिगन्तान् नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ।
इमे पदाब्जे विधिनापि सृष्टास् तावत्य एकाङ्गुलयोऽत्र लेखाः ॥
एष्यन्त्यवश्यमधुना हृदयाधिनाथा मुग्धा मुधा कुरुत मा विविधं विलापम् ।
इत्थं शशंसुरिव गर्जितकैतवेन पाथोधराः पथिकपङ्कजलोचनाभ्यः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0