भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8176-8195

8176

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
इति वित्रस्तसारङ्गनेत्रया को न वञ्चितः ॥

8177

एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर ।
एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥

8178

एहि तत्र चिनुवः सुकौसुमं कौ सुमञ्जुसुमनस्तरुश्रियाम् ।
एकिकामिति ततान मानिनीम् आनिनीय कपटाद् रहः क्षणम् ॥

8179

एहि विश्वात्मने वत्से भिक्षा त्वं परिकल्पिता ।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥

8180

एहि हे रमणि पश्य कौतुकं धूलिधूसरतनुं दिगम्बरम् ।
सापि तद्वदनपङ्कजं पपौ भ्रातरुक्तमपि किं न बुघ्यते ॥

8181

एह्यागच्छ समाविशासनमिदं कस्माच् चिराद् दृश्यसे का वार्त्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्यादरात् तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥

8182

एह्यालिङ्ग त्वरयति मनो दुर्बला वासरश्रीर् आश्लिष्टासि क्षपय रजनीमेकिका चक्रवाकि ।
नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाधीनः सपदि भवतीमस्वतन्त्रस् त्यजामि ॥

8183

एह्येहि क्व गतासि मैथिलि मृगः प्राप्तो मया काञ्चनीम् एतस्य त्वचमुच्चरामि कुचयोर्विन्यस्य वर्णांशुकम् ।
मत्सौभाग्यबुभुत्सयापि विपिनेष्वेकाकिनी मा स्म भूर् विद्विष्टा मयि संचरन्ति सरले मायाविनो राक्षसाः ॥

8184

एह्येहि वत्स रघुनन्दन रामभद्र चुम्बामि मूर्धनि चिराय परिष्वजे त्वाम् ।
आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥

8185

एह्येहीति शिखण्डिनां पटुतरं केकाभिराक्रन्दितः प्रोड्डीयेव बलाकया सरभसं सोत्कण्ठमालिङ्गितः ।
हंसैरुज्झितपङ्कजैरतितरां सोद्वेगमुद्वीक्षितः कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठति ॥

8186

ऐकगुण्यमनीहायाम् अभावः कर्मणां फलम् ।
अथ द्वैगुण्यमीहायां फलं भवति वा न वा ॥

8187

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा ।
मन्त्रिणो यत्र निरतास् तमाहुर्मन्त्रमुत्तमम् ॥

8188

बह्व्योऽपि मतयो गत्वा मन्त्रिणामर्थनिर्णये ।
पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः ॥

8189

अन्योऽन्यं मतिमास्थाय यत्र संप्रतिभाष्यते ।
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते ॥

8190

ऐणं चर्म पलाशवेश्म पुरतो दृष्ट्वैव कृष्णाजिनं भिक्षार्थी क्षुधितस् तपोवनधिया किं धार्मिक भ्राम्यसि ।
एनां भिल्लपुरीमवैहि सुरभीशृङ्गेण यत्र स्थितैः पीयन्ते वनवह्निदग्धमहिषीमांसोपदंशं सुराः ॥

8191

ऐन्दवादर्चिषः कामी शिशिरं हव्यवाहनम् ।
अबलाविरहक्लेशविह्वलो गणयत्ययम् ॥

8192

ऐन्दवी वहति नाडिका यदा स्वेच्छया प्रविशति प्रभञ्जनः ।
पोतकी व्रजति दक्षिणा यदा स्यात् तदा सकलमीप्सितं फलम् ॥

8193

ऐन्द्रं धनुः पाण्डुपयोधरेण शरद् दधानार्द्रनखक्षताभम् ।
प्रसादयन्ती सकलङ्कमिन्दुं तापं रवेरप्यधिकं चकार ॥

8194

ऐन्द्रिः किल नखैस् तस्या विददार स्तनौ द्विजः ।
प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन् ॥

8195

ऐन्द्र्यां दिगवलोकित- सूर्याभिमुखो गृहे गृहिणः ।
राजभयं चौरभयं वधकलहः पशुभयं च स्यात् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc