भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8136-8155

8136

एषा का नवयौवना शशिमुखी कान्ता पथो गच्छति निद्राव्याकुलिता विघूर्णनयना संपक्वबिम्बाधरा ।
केशैर्व्याकुलिता नखैर्विदलिता दन्तैश्च खण्डीकृता केनेदं रतिराक्षसेन रमिता शार्दूलविक्रीडिता ॥

8137

एषा कान्ता व्रजति ललितं वेपमाना गुल्मच्छन्नं वनमुरुनगैः संप्रविद्धम् ।
हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं क्रोधच्छरभललितं कर्तुकामा ॥

8138

एषा का परिपूर्णचन्द्रवदना गौरीमृगा क्षोभिनी लीलामत्तगजेन्द्रहंसगमना - - . - - . - ।
निःश्वासाधरगन्धशीतलमुखी वाचा मृदूल्लासिनी स श्लाघ्यः पुरुषस् स जीवति वरो यस्य प्रिया हीदृशी ॥

8139

एषा का प्रस्तुताङ्गी प्रचलितनयना हंसलीला व्रजन्ती द्वौ हस्तौ कुङ्कुमार्द्रौ कनकविरचिता - . - - . - - ।
- ऊंगांगेगता सा बहुकुसुमयुता बद्धवीणा हसन्ती ताम्बूलं वामहस्ते मदनवशगता गूह्य शालां प्रविष्टा ॥

8140

एषा का भुक्तमुक्ता प्रचलितनयना स्वेदलग्नाङ्गवस्त्रा प्रत्यूषे याति बाला मृग इव चकिता सर्वतः शङ्कयन्ती ।
केनेदं वक्त्रपद्मं स्फुरदधररसं षट्पदेनैव पीतं स्वर्गः केनाद्य भुक्तो हरनयनहतो मन्मथः कस्य तुष्टः ॥

8141

एषा का रतिहावभावविलसच्चन्द्राननं बिभ्रती गात्रं चम्पकदामगौरसदृशं पीनस्तनालम्बिता ।
पद्भ्यां संचरति प्रगल्भहरिणी संलीलया स्वेच्छया किं चैषा गगनाङ्गना भुवितले संपादिता ब्रह्मणा ॥

8142

एषा का स्तनपीनभारकठिना मध्ये दरिद्रावती विभ्रान्ता हरिणी विलोलनयना संत्रस्तयूथोद्गता ।
अंतःस्वेदगजेन्द्रगण्डगलिता संलीलया गच्छति दृष्ट्वा रूपमिदं प्रियाङ्गगहनं वृद्धोऽपि कामायते ॥

8143

एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥

8144

एषागतैव निबिरीसनितम्बबिम्ब- भारेण पक्ष्मलदृशः क्रियते तु विघ्नः ।
यान्त्या इतीव दयितान्तिकमेणदृष्टेर् अग्रे जगाम गदितुं लघुचित्तवृत्तिः ॥

8145

एषा जिगीषति पृथुस्तबका लता त्वां पर्याप्तपीननिबिडस्तनभारखिन्नाम् ।
अस्याः प्रिये विचिनुमः स्तबकांस् तथान्याः कर्तुं यथा न हि कदापि लताः स्मरेयुः ॥

8146

एषा ते हर का सुगात्रि कतमा मूर्ध्नि स्थिता किं जटा हंसः किं भजते जटां नहि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस् तरङ्गायते इत्थं यो विनिगूहते त्रिपथगां पायात् स वः शंकरः ॥

8147

एषा दोषा यथार्था प्रियतम भवतो हन्त जाता वियोगे स्त्रीहत्यापातकीति प्रथितिमुपगते लाञ्छनीति त्रिलोक्याम् ।
नैवं भूयोऽपराधं बत दयित कदाप्याचरिष्यामि सत्यं त्वत्त्यक्तां मां सुतिग्मैर्मनसिजशमनः सायकैर्हन्तुमुत्कः ॥

8148

एषा धर्मपताकिनी तटसुधासेवावसन्नाकिनी शुष्यत्पातकिनी भगीरथतपःसाफल्यहेवाकिनी ।
प्रेमारूढपिनाकिनी गिरिसुतास्याकेकरालोकिनी पापाडम्बरडाकिनी त्रिभुवनानन्दाय मन्दाकिनी ॥

8149

एषा पुष्करिणी मराल मलिनैश् छन्ना कुवीथीजलैर् यस्यामज्ञतया विधेरकृपया चेद् वस्तुमाकाङ्क्षसे ।
विश्रम्भो बकमण्डलेषु विनयो भेकेषु संबन्धिता रात्र्यन्धेषु विधीयतां कृपणता कोयष्टिकश्रेणिषु ॥

8150

एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव ।
को नाम पाकाभिमुखस्य जन्तोर् द्वाराणि दैवस्य पिधातुमीष्टे ॥

8151

एषा फुल्लकदम्बनीपसुरभौ काले घनोद्भासिते कान्तस्यालयमागता समदना हृष्टा जलार्द्रालका ।
विद्युद्वारिदगर्जितैः सचकिता त्वद्दर्शनाकाङ्क्षिणी पादौ नूपुरलग्नकर्दमधरौ प्रक्षालयन्ती स्थिता ॥

8152

एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजानुजा वा ।
यः पश्यति क्षणमिमां कथमन्यथासौ कामस् तमस्तकरुणस् तरुणं हिनस्ति ॥

8153

एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती ।
सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी ॥

8154

एषा रङ्गप्रवेशेन कलानां चैव शिक्षया ।
स्वरान्तरेण दक्षा हि व्याहर्तुं तन्न मुच्यताम् ॥

8155

एषा लता यदि विलासवती कथं स्याद् विद्युल्लता यदि कथं भविता धरण्याम् ।
वस्तुं मनोजनृपतेर्नगरी गरीयो- वक्षोजदुर्गविषमा किमकारि धात्रा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc