महासुभाषितसंग्रह · श्लोक 8056-8075
एवं भवति लोकेऽस्मिन् देव सर्वस्य सर्वदा ।
प्राक्कर्मोपार्जितं जन्तोः सर्वमेव शुभाशुभम् ॥
एवं भवन्ति वेश्याः स्वार्थैकरता व्यपेतसद्भावाः ।
अभिलषितविषयसिद्धेः का हानिस् तदपि युष्माकम् ॥
एवं मनः कर्मवशं प्रयुङ्क्ते अविद्ययात्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे न मुच्यते देहयोगेन तावत् ॥
... ... ... ... ... ... ।
एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥
एवं मूढस्य मूढत्वं स्वार्थान्धस्यातिचित्रता ।
... ... ... ... ... ... ॥
एवं मोहप्रभवो रागो न स्त्रीषु कस्य दुःखाय ।
तास्वेव विवेकभृतां भवति विरागस् तु मोक्षाय ॥
एवं यथाह भवती मम सर्वदोषाः कः स्वामिना कुवलयाक्षि सहानुबन्धः ।
एषोऽञ्जलिर्विरचितः कुरु निग्रहं मे दासेऽपराधवति कोऽवसरः क्षमायाः ॥
एवं लेपत्रयं कुर्यात् सप्तमे सप्तमेऽहनि ।
ततो जन्मावधि कचाः कृष्णाः स्युर्भ्रमरप्रभाः ॥
एवं लोकं परं विद्यान् नश्वरं कर्मनिर्मितम् ।
सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥
एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत् ।
त्यजेद् भ्रकुटिसंकोचं पूर्वाभाषी जगत्सुहृत् ॥
एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥
एवं विचारश् चिन्ता च सारं राज्येऽधिकं नु किम् ।
... ... ... ... ... ... ॥
एवंविधान् गजाञ् जात्यान् वनादानीय पार्थिवः ।
विनये शिष्यवत् कुर्यात् पुत्रवत् परिपालयेत् ॥
एवंविधे भावि न वेति चित्ते निवेश्य कार्यं भषणं विमुञ्चेत् ।
संभक्ष्य पिण्डं स्थिरतां गतस्य चेष्टादिकं तस्य निरूपणीयम् ॥
एवं विलोक्यास्य गुणाननेकान् समस्तपापारिनिरासदक्षान् ।
विशुद्धबोधा न कदाचनापि ज्ञानस्य पूजां महतीं त्यजन्ति ॥
एवं विषप्रयोगेण शत्रूणां क्षुद्रधातकम् ।
क्षीणेन क्रियते यत् तु विषदण्डः स उच्यते ॥
एवं विषह्य विधुरस्य विधेर्नियोगम् आपत्सु रक्षितचरित्रधना हि साध्व्यः ।
गुप्ताः स्वसत्त्वविभवेन महत्तमेन कल्याणमादधति पत्युरथात्मनश्च ॥
एवंवृत्तस्य राज्ञस् तु शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥
एवं वेधत्रयं कुर्याच् शङ्खदुन्दुभिनिःस्वनैः ।
ततः प्रणम्य गुरवे धनुर्बाणान् निवेदयेत् ॥
एवं श्रमविधिं कुर्याद् यावत् सिद्धिः प्रजायते ।
श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0