भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8036-8055

8036

एवं दुरवधार्यैव गतिश् चित्तस्य योषिताम् ।
सवैरस्याविचारस्य नीचैकाभिमुखस्य च ॥

8037

एवं चात्यक्तशीलानां ससत्त्वानां जितक्रुधाम् ।
तुष्ट्यैवाचिन्तिता एव स्वयमायान्ति संपदः ॥

8038

एवं देवोपहास्यत्वं लोके गच्छन्त्यबुद्धयः ।
लभन्ते नार्थसंसिद्धिं पूज्यन्ते तु सुबुद्धयः ॥

8039

एवं द्रव्यं द्विपवनं सेतुबन्धमथाकरान् ।
रक्षेत् पूर्वकृतान् राजा नवांश्चाभिप्रवर्तयेत् ॥

8040

एवं नरेश वनिताहृदये कदाचित् कूटाद् ऋते वसति सत्यकथालवोऽपि ।
तत् सार्थसाध्यगमनासु सदैव तासु शून्याटवीष्विव रमेत न भूतिकामः ॥

8041

एवं न शक्नुवन्तीह यत् तत् कर्तुमशेषतः ।
यथाशक्ति न तस्यांशम् अपि कुर्वन्त्यबुद्धयः ॥

8042

एवं निश्चितमभ्येति शुभमेव शुभात्मनाम् ।
एवं चातिक्रमो नाम क्लेशाय महतामपि ॥

8043

अविश्वासास्पदं चैव स्त्रीणां स्पृशति नाशयम् ।
प्राणदानोपकारोऽपि किं तासामन्यदुच्यते ॥

8044

एवं निसर्गचपला ललना विवेक- वैराग्यदायिबहुदुश्चरितप्रबन्धाः ।
साध्वी तु काचिदपि तासु कुलं विशालं यालंकरोत्यभिनवा खमिवेन्दुलेखा ॥

8045

एवं निहत्य संग्रामे दुष्टशत्रुं मदोद्धतम् ।
जयतूर्यनिनादेन हर्षयन् सुभटान् स्वकान् ॥

8046

... ... ... ... ... ... ।
एवं नोज्झति मूढोऽर्थान् यावदर्थैः स नोज्झितः ॥

8047

... ... ... ... ... ... ।
एवं पशुश्च मूर्कश्च निर्विवेकमती समौ ॥

8048

एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास् तथा ।
तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥

8049

एवं प्रज्ञैव परमं बलं न तु पराक्रमः ।
यत्प्रभावेण निहतः शशकेनापि केसरी ॥

8050

एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्थाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥

8051

एवं फलति सर्वस्य विधिः सत्त्वानुसारतः ।
तत् सुसत्त्वो भवेत् सत्त्वहीनं न वृण्वते श्रियः ॥

8052

... ... ... ... ... ... ।
एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ॥

8053

एवं बहूनपि रिपून् समरप्रवृत्तान् द्वेषाकुलानगणितस्वपरस्वरूपान् ।
एकोऽप्यनन्यसमपौरुषभग्नसार- दर्पज्वराञ् जयति संयुगमूर्ध्नि धीरः ॥

8054

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥

8055

एवं ब्रुवन्ति लोकेऽत्र धनिनां पुरतःस्थिताः ।
कुलीना अपि पापानां दृश्यन्ते धनलिप्सया ।
दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc