भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 8076-8095

8076

एवं संचिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
मनोवाक्कर्मभिर्नित्यं शुभं कर्म समाचरेत् ॥

8077

एवं सन्त्येव देवेह भर्तृभक्ताः कुलाङ्गनाः ।
न पुनः सर्वथा सर्वा दुर्वृत्ता एव योषितः ॥

8078

एवं सर्वं विधायेदम् इतिकर्तव्यमात्मनः ।
युक्तश् चैवाप्रमत्तश् च परिरक्षेदिमाः प्रजाः ॥

8079

एवं सर्वजगद् विलोक्य कलितं दुर्वारवीर्यात्मना निस्त्रिंशेन समस्तसत्त्वसमितिप्रध्वंसिना मृत्युना ।
सद्रत्नत्रयशातमार्गणगणं गृह्णन्ति तच्छित्तये सन्तः शान्तधियो जिनेश्वरतपः साम्राज्यलक्ष्मीश्रिताः ॥

8080

एवं सर्वजनानां दुःखकरं जठरशिखिनमतिविषमम् ।
संतोषजलैरमलैः शमयन्ति यतीश्वरा ये ते ॥

8081

एवं सर्वमिदं कृत्वा यन् मयासादितं शुभम् ।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥

8082

एवं सर्वमिदं राजा संमन्त्र्य सह मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं व्रजेत् ॥

8083

एवं सर्वात्मना कार्या रक्षा योगविदानिशम् ।
धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥

8084

एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी ।
कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥

8085

एवं साधारणं देहम् अव्यक्तप्रभवाप्ययम् ।
को विद्वानात्मसात्कृत्वा हन्ति जन्तूनृतेऽसतः ॥

8086

एवं सिद्धो भवेद् योगी वञ्चयित्वा विधानतः ।
कालं कलितसंसारं पौरुषेणाद्भुतेन हि ॥

8087

एवं स्थापय सुभ्रु बाहुलतिकामेवं कुरु स्थानकं नात्युच्चैर्नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् ।
एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शंभोर्वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः ॥

8088

... ... ... ... ... ... ।
एवं स्वदोषः प्रकटोऽप्य् अज्ञैर्देव न बुध्यते ॥

8089

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥

8090

... ... ... ... ... ... ।
एवं हि कुरुते देव योषिदीर्ष्यानियन्त्रिता ॥

8091

शिक्षयत्यन्यपुरुषाऽसंगमीर्ष्यैव हि स्त्रियः ।
तदीर्ष्यामप्रकाश्यैव रक्ष्या नारी सुबुद्धिना ॥

8092

रहस्यं च न वक्तव्यं वनितासु यथा तथा ।
पुरुषेणेच्छता क्षेमम् ... ... ... ॥

8093

एवमज्ञातहृदया मूर्खाः कृत्वा विपर्ययम् ।
घ्नन्ति स्वार्थं परार्थं च तादृग् ददति चोऽत्तरम् ॥

8094

एवमनेकविधं विदधाति यो जननार्णवपातनिमित्तम् ।
चेष्टितमङ्गजबाणविभिन्नो नेह सुखी न परत्र सुखी सः ॥

8095

एवमन्याय्यया बुद्ध्या कृतं कर्माशुभावहम् ।
तस्मात् तन् न्याय्यया कुर्याद् बकेनाहेः कृतं यथा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc