महासुभाषितसंग्रह · श्लोक 7814-7834
एतदर्थं हि राज्यानि प्रशासति नरेश्वराः ।
यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते ॥
एतदर्थे कुलीनानां नृपाः कुर्वन्ति संग्रहम् ।
आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥
एतदुच्छ्वसितपीतमैन्दवं सोढुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥
एतदेव कुलीनत्वम् एतदेव गुणार्जनम् ।
यत् सदैव सतां सत्सु विनयावनतं शिरः ॥
एतदेव तु विज्ञेयं स्वार्थधर्मविघातजे ।
विषयध्वंसजे शत्रोर् विषयप्रतिपीडनम् ॥
एतदेव परं शौर्यं यत् परप्राणरक्षणम् ।
नहि प्राणहरः शूरः शूरः प्राणप्रदोऽर्थिनाम् ॥
एतदेव मम पुण्यमगण्यं यत् कृशोदरि दृशोरतिथिस् त्वम् ।
दूरमस्तु मदघूर्णिततारं शारदेन्दुमुखि वीक्षणमक्ष्णोः ॥
एतदेव महच्चित्रं प्राक्तनस्येह कर्मणः ।
यदनात्मवतामायुर् यच्चानतिमतां श्रियः ॥
एतदेव हि पाण्डित्यम् इयमेव बहुज्ञता ।
अयमेव परो लाभो यत् स्वल्पाद् भूरिरक्षणम् ॥
एतदेव हि पाण्डित्यं एषा चैव कुलीनता ।
एष एव परो धर्म आयादूनतरो व्ययः ॥
एतदेवायुषः सारं निसर्गक्षणभङ्गिनः ।
स्निग्धर्मुग्धैर्विदग्धैश्च यदयन्त्रितमास्यते ॥
एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ॥
एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
यत् स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥
एतद्गन्धगजस् तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।
दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमि- व्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ॥
एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैत् अद्- दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीद् एतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥
एतद् दधाति नवयौवननर्तकस्य कश्मीरजच्छुरिततालकयुग्मलक्ष्मीम् ।
मध्ये समुच्छ्वसितवृत्ति मनागुपान्ते लब्धात्मसीम कुचकुड्मलयुग्ममस्याः ॥
एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं संग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः ।
पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामर- श्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥
एतद् देव यशस्करं नरपतेर्यत् तस्करे निग्रहो दीर्घं जीव यथापराधमधुरं दण्डं जगत्यावहन् ।
येनायं परिपन्थिपार्थिववधूसिन्दूरचौरस् त्वया बद्धश्च प्रतिदण्डभैरवकरी क्षिप्तश्च कारागृहे ॥
एतद् धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः ।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥
एतद्धि परमं नार्याः कार्यं लोके सनातनम् ।
प्राणानपि परित्यज्य यद् भर्तृहितमाचरेत् ॥
एतद् बभ्रुकचानुकारिकिरणं राजद्रुहोऽह्नः शिरश्- छेदाभं वियतः प्रतीचि निपतत्यब्धौ रवेर्मण्डलम् ।
एषापि द्युरमा प्रियानुगमनं प्रोद्दामकाष्ठोत्थिते संध्याग्नौ विनिधाय तारकमिषाज्जातास्थिशेषस्थितिः ॥
एतद् बुद्धिमशेषाणां सत्त्वमातन्य योगवित् ।
परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0