महासुभाषितसंग्रह · श्लोक 7835-7854
एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थि तोन्निद्रचन्द्रा ।
आक्रन्दद् भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब- प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन् न्यश्वसीच्च ॥
एतद् भीमपराक्रमेण रचितं संसारसारं सरः पाथोनाथकथापहस्तनकलावैचक्षणे दीक्षितम् ।
यन्माहात्म्यविलोकनाद्भुतरसाद्धूताम्बरश्री शिरः- स्रस्तं कुण्डलमम्बुबिम्बितरविव्याजेन विद्योतते ॥
एतद्भूषणकौशलं तव तनौ पश्येत् तदा माधवो राधे तत्सविधे हि चेतसिचले चेद् धैर्यमाधास्यति ।
इत्थं जल्पति शिल्पकारिणि जने तस्याः स्मरन्त्या हरिं सद्यः स्वेदसरिद् व्यलम्पदमलं पत्रावलीमण्डलम् ॥
एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् ।
एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥
एतद् रहस्यं परमम् एतच्च परमं पदम् ।
एषा गतिर्विरक्तानाम् एषोऽसौ परमः शिवः ॥
एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥
एतद् विद्वान् मदुदितं ज्ञानविज्ञाननैपुणम् ।
न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥
एतद् विधानमातिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वमेतत् तु भृत्येषु विनियोजयेत् ॥
एतद् विभाति चरमाचलचूडचुम्बि- हिण्डीरपिण्डरुचिशीतमरीचिबिम्बम् ।
उज्ज्वालितस्य रजनीं मदनानलस्य धूमं दधत् प्रकटलाञ्छनकैतवेन ॥
एतद् व्योमवनीवराहवलयं विश्वैकवीरस्मर- स्कन्धावारमदान्धसिन्धुरकुलं श्यामावधूकैशिकम् ।
चक्षुष्याञ्जनवस्तु घूकसदसां विश्लिष्टचक्राह्वय- स्तोमान्तर्गतधूमकेतनमहाधूम्या तमस् तार्यते ॥
एतन्नरेन्द्रवृषभ क्षपया व्रजन्त्या संरोपणार्थमिव गोपितमम्बुजेषु ।
उद्घाटयत्ययमशीतकरः करौघैः पद्माकरात् तिमिरबीजमिवालिवृन्दम् ॥
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर- प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते ।
तत् पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना- दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥
एतन्मयमिव जातं निपतितमस्यां मनो नूनम् ।
नायात्यपि यदुपायात् कथमपि कायात् कुरङ्गनयनायाः ॥
एतन्मानिनि मानसं सुरसरो निर्लूनहेमाम्बुजं पार्वत्या प्रियपूजनार्थममुतो गङ्गासरिन्निर्गता ।
अस्माच् चित्रशिखण्डिभिश्च परमे पर्वण्युपादीयते स्नानोत्तीर्णवृषाङ्कभस्मरजसां सङ्गात् पवित्रं पयः ॥
एतन्मालवमण्डलं विजयते सौजन्यरत्नाङ्कुरैः संपद्विभ्रमधामभिः किमपरं शृङ्गारसारैर्जनैः ।
यत्रारुह्य विचित्रचित्रवलभीर्लीलाशिलासद्मनां नीयन्ते जलदोदयेषु दिवसाः कान्तासखैः कामिभिः ॥
एतन्मुखं प्रियायाः शशिनं जित्वा कपोलयोः कान्त्या ।
तापानुरक्तमधुना कमलं ध्रुवमीहते जेतुम् ॥
एतल्लोचनमुत्पलभ्रमवशात् पद्मभ्रमादाननं भ्रान्त्या बिम्बफलस्य चाजनि दधद्वामाधरो वेधसा ।
तस्याः सत्यमनङ्गविभ्रमभुवः प्रत्यङ्गमासङ्गिनी भ्रान्तिर्विश्वसृजोऽपि यत्र कियती तत्रास्मदादेर्मतिः ॥
एतस्माज् जलधेर्जलस्य कणिकाः काश्चिद् गृहीत्वा ततः पाथोदाः परिपूरयन्ति जगतीं रुद्धाम्बरा वारिभिः ।
अस्मान् मन्दरकूटकोटिघटनाभीतिभ्रमत्तारकां प्राप्यैकां जलमानुषीं त्रिभुवने श्रीमानभूदच्युतः ॥
एतस्मात् कथमिन्द्रजालमपरं स्त्रीगर्भवासोऽस्थिरं रेतः श्च्योतति मस्तमस्तकपदाविर्भूतनानाङ्कुरम् ।
पर्यायेण शिशुत्वयौवनजरावेषैरशेषैर्वृतं पश्यत्यत्ति शृणोति जिघ्रति मुहुर्निद्राति जागर्ति च ॥
एतस्मात् परमानन्दाच् शुद्धचिन्मात्ररूपिणः ।
जीवः संजायते पूर्वं तस्माच् चित्तं ततो जगत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0