भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7794-7813

7794

एतत् तद् दुर्जयं लोके पुत्रदारमयं विषम् ।
जायन्ते च म्रियन्ते च यत् पीत्वा मोहिताः प्रजाः ॥

7795

एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो हृष्टो गर्जति चातिदर्पितबलो दुर्योधनो वा शिखी ।
अक्षद्यूतजितो युधिष्ठिर इवाध्वानं गतः कोकिलो हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः ॥

7796

एतत् तद्वक्त्रमत्र क्व तदधरमधु क्वायतास्ते कटाक्षाः क्वालापाः कोमलास्ते क्व स मदनधनुर्भङ्गुरो भ्रूविलासः ।
इत्थं खट्वाङ्गकोटौ प्रकटितदशनं मञ्जुगुञ्जत्समीरम् रागान्धानामिवोच्चैरुपहसितमहो मोहजालं कपालम् ॥

7797

एतत् तर्कय चक्रवाकसुदृशामाश्वासनादायिनः प्रौढध्वान्तपयोधिमग्नजगतीदत्तावलम्बोत्सवाः ।
दीप्तांशोर्विकसन्ति दिङ्मृगदृशां काश्मीरपङ्कोदक- व्यात्युक्षीचतुराः सरोरुहवनश्रीकेलिकाराः कराः ॥

7798

एतत् तर्कय चक्रवाकहृदयाश्वासाय तारागण- ग्रासाय स्फुरदिन्दुमण्डलपरीहासाय भासां निधिः ।
दिक्कान्ताकुचकुम्भकुङ्कुमरजोन्यासाय पङ्केरुहो- ल्लासाय स्फुटवैरिकैरववनत्रासाय विद्योतते ॥

7799

एतत् तस्य मुखात् कियत् कमलिनीपत्रे कणं वारिणो यन् मुक्तामणिरित्यमंस्त स जडः शृण्वन् यदस्मादपि ।
अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैस् कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥

7800

एतत् तु मां दहति यद् गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्जयन्ति ।
संशुष्कसान्द्रमदलेखमिव भ्रमन्तः कालात्यये मधुकराः करिणः कपोलम् ॥

7801

एतत् ते भ्रूलतोद्भासि पाटलाधरपल्लवम् ।
मुखं नन्दनमुद्यानम् अतोऽन्यत् केवलं वनम् ॥

7802

एतत् ते मुखमक्षतेन्दुलडहच्छायं भवल्लोचनं नीलेन्दीवरनिर्विशेषमधरस्ते बन्धुजीवारुणः ।
भ्रूवल्लिस्तव कामकार्मुकलता लीलासहाध्यायिनी न ध्यायन्तु कथं नु देव कथय त्वामेकमेणीदृशः ॥

7803

एतत् पयोधरयुगं पतितं निरीक्ष्य खेदं वृथा वहसि किं कमलायताक्षि ।
स्तब्धो विवेकरहितो जनतापकारी ह्यत्युन्नतः प्रपततीति किमत्र चित्रम् ॥

7804

एतत् पुरः स्फुरति पद्मदृशां सहस्रम् अक्षिद्वयं कथय कुत्र निवेशयामि ।
इत्याकलय्य नयनाम्बुरुहे निमील्य रोमाञ्चितेन वपुषा स्थितमच्युतेन ॥

7805

एतत् पूतनचक्रमक्रमकृतग्रासार्धमुक्तैर्वृकान् उत्पुष्णत्परितो नृमांसविघसैरादर्दरं क्रन्दतः ।
खर्जूरद्रुमदघ्नजङ्घमसितत्वङ्नद्धविष्वक्तत- स्नायुग्रन्थिघनास्थिपञ्जरजरत्कङ्कालमालोक्यते ॥

7806

एतत् प्रचण्डि समुदेत्यकलङ्कमूर्ति कल्माषिताम्बरतलं ग्रहचक्रवालम् ।
सूर्येन्दुसंपुटसमुद्गकवाटकोष- विश्लेषकीर्णनवरत्नकलापकान्ति ॥

7807

एतत् सर्वं परिज्ञाय वृक्षारोपं समारभेत् ।
धर्मार्थकाममोक्षाणां द्रुमेभ्यः साधनं यतः ॥

7808

एतत् सर्वं शृणुत वचनं संग्रहादत्र सख्यः प्राणानां नः फलमविकलं नूनमेषा सखी वः ।
विश्लेषेऽस्मिन् प्रचलति भृशं दीपिकेव प्रवाते सत्यामस्यां वयमतमसः सर्वथा रक्षतैनाम् ॥

7809

एतत् सर्वममात्यादि राजा नयपुरःसरः ।
नयत्युन्नतिमुद्युक्तो व्यसनी क्षयमेव च ॥

7810

एतदत्र पथिकैकजीवितं पश्य शुष्यतितरां महत्सरः ।
रे मुधाम्बुधर रुद्धसद्गतिर् वर्धिता किमिति घट्टवाहिनी ॥

7811

एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः ।
एतैरेव निमित्तैर् मरुभूमावष्टभिः कथयेत् ॥

7812

एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः ।
यद् विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥

7813

एतदर्थं हि कुर्वन्ति राजानो धनसंचयम् ।
रक्षयित्वा तु चात्मानं यद्धनं तद् द्विजातये ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc