भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7774-7793

7774

एणीदृशो विजयते वेणी पृष्ठावलम्बिनी ।
कशेव पञ्चबाणस्य युवतर्जनहेतवे ॥

7775

एणी याति विलोक्य बालशलभान् शष्पाङ्कुरादित्सया छत्रीकुड्मलकानि रक्षति चिरादण्डभ्रमाद् कुक्कुटी ।
धूत्वा धावति कृष्णकीटपटलश्रेणीं शिखण्डी शिरो दूरादेव वनान्तरे विषधरग्रासाभिलाषातुरः ॥

7776

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढि भिर् वेणीभूतरसक्रमाभिरभितः श्रेणीकृताभिर्वृतः ।
पाणी नाम विनोदयन् रतिपतेस्तूणीशयैः सायकैर् वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥

7777

एणो गजः पतङ्गश्च भृङ्गो मीनस् तु पञ्चमः ।
शब्दस्पर्शरूपगन्धरसैरेते हताः खलु ॥

7778

एतच्च तपसो मूलं तपसो मूलमेव च ।
सर्वदा कामविजयः संकल्पविजयस् तथा ॥

7779

एतच् चतुर्गुणं तैलं तस्माच् चापि चतुर्गुणम् ।
कांजिकं प्रक्षिपेद् धीमांस् ततस् तैलं विपाचयेत् ॥

7780

एतच्छान्तविचित्रचत्वरपथं विश्रान्तवैतालिक- श्लाघाश्लोकमगुञ्जिमञ्जुमुरजं विध्वस्तगीतध्वनि ।
व्यावृत्ताध्ययनं निवृत्तसुकविक्रीडासमस्यं नमद्- विद्वद्वादपथं कथं पुरमिदं मौनव्रते वर्तते ॥

7781

एतच्छास्त्रार्थतत्त्वं तु मयाख्यातं तवानघ ।
अविश्वासो नरेन्द्राणाम् अपरं गुह्यमुच्यते ॥

7782

एतज् जडाजडविवेचनमेतदेव क्षित्यादितत्त्वपरिशोधनकौशलं च ।
ज्ञानं च शैवमिदमागमकोटिलभ्यं मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥

7783

एतत्करालकरवालनिकृत्तकण्ठ- नालोच्चलद्बहुलफेनिलबुद्बुदौघैः ।
सार्धं डमड्डमरुडांकृतिहूतभूत- वर्गेण भर्गगृहिणीं रुधिरैर्धिनोमि ॥

7784

एतत् कवीन्द्रमुखचन्द्रमसः कदाचित् काव्याभिधानममृतं यदि नागलिष्यत् ।
संसारिणां विविधदुःखसहस्रभाजां चेतोविनोदसदनं किमिहाभविष्यत् ॥

7785

एतत् कान्तमिदं कान्तम् इत्यावसथतृष्णया ।
तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ॥

7786

एतत् कामफलं लोके यद् द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव संगमः ॥

7787

एतत् कार्यममराः संश्रुतं मे धृतिः शमः सत्यधर्मानुवृत्तिः ।
ग्रन्थिं विनीय हृदयस्य सर्वं प्रियाप्रिये चात्मवशं नयीत ॥
एतत् किं ननु कर्णभूषणमयं हारः सुकाञ्ची नवा बद्धा काचिदियं त्वयाद्य तिलकः श्लाघ्यः प्रिये कल्पितः ।
प्रत्यङ्गं स्पृशतेति तत्क्षणभवद्रोमाञ्चमालाञ्चिता तन्वी मानमुपेक्षयैव शनकैर्धूर्तेन संमोचिता ॥

7788

एतत् किं प्रणयिन्यपि प्रणयिनी यन् मानिनी जायते मन्ये मानविधौ भविष्यति सुखं किंचिद् विशिष्टं रसात् ।
वाञ्छा तस्य सुखस्य मेऽपि हृदये जागर्ति नित्यं परं स्वप्नेऽप्येष न मेऽपराध्यति पतिः कुप्यामि तस्मै कथम् ॥

7789

एतत् किं श्रुतसदृशं त्वद्व्रतयोग्यं कुलानुरूपं वा ।
कृतवानसि यत् सुमते परिभूतगुणोदयं कर्म ॥

7790

एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर् विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।
जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तेः पुनः सा यन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥

7791

एतत्कुचस्पर्धितया धटस्य ख्यातस्य शास्त्रेषु निदर्शनत्वम् ।
तस्माच्च शिल्पान् मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥

7792

एतत् कृत्वा प्रियमनुचितप्रार्थनावर्त्मनो मे सौहार्दाद् वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान् देशान् विचर जलद प्रावृषा संभृतश्रीर् मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥

7793

एतत् कोककुटुम्बिनीजनमनःशल्यं चकोराङ्गना- चञ्चूकोटिकपाटयोर्घटितयोरुद्घाटिनी कुञ्चिका ।
दग्धस्यापि नवाङ्कुरः स्मरतरोरार्द्रागसां प्रेयसी- मानोद्दामगजाङ्कुशो विजयते मुग्धं सुधांशोर्वपुः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc