भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7754-7773

7754

ग्राम्यो धातृद्विजसुतः प्राप्तलाभश्च गायनः ।
सद्यः सार्थपतिः प्राप्तः श्रीमान् दैवपरायणः ॥

7755

गतानुगतिको मूर्खः शास्त्रोन्मादश्च पण्डितः ।
नित्यक्षीबश्च वेश्यानां जङ्गमाः कल्पपादपाः ॥

7756

एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम् इत्येवं परिचिन्त्य मात्ममनसि व्याधानुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः साधूनामरयो वसन्ति कति न त्वत्तुल्यकक्षा नराः ॥

7757

एको वैश्यश्च द्वौ शूद्रौ ब्राह्मणास्त्रय एव च ।
विद्योपजीविनः पञ्च न गच्छेयुः समं स्वयम् ॥
एको वैश्यो द्वौ च शूद्रौ क्षत्रियाः सप्त पञ्च वा ।
नव नार्यो न गच्छेयुः न गच्छेद् ब्राह्मणत्रयम् ॥

7758

एकोऽहमसहायोऽहं कृशोऽहमपरिच्छदः ।
स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥

7759

एकोऽहमस्मीति च मन्यसे त्वं न हृच्छयं वेत्सि मुनिं पुराणम् ।
यो वेदिता कर्मणः पापकस्य यस्यान्तिके त्वं वृजिनं करोषि ॥

7760

एकोऽहमस्मीत्यात्मानं यत् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्येष पुण्यपापेक्षिता मुनिः ॥

7761

एको हरः प्रियाधर- गुणवेदी दिविषदोऽपरे मूढाः ।
विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥

7762

एको हि कुरुते पापं कालपाशवशं गतः ।
नीचेनात्मापचारेण कुलं तेन विनश्यति ॥

7763

एको हि खञ्जनवरो नलिनीदलस्थो दृष्टः करोति चतुरङ्गबलाधिपत्यम् ।
किं मे करिष्यति भवद्वदनारविन्दे जानामि नो नयनखञ्जनयुग्ममेतत् ॥

7764

एको हि दोषो गुणसंनिपाते निमज्जतीत्येतदयुक्तमुक्तम् ।
रूपादिकान् सर्वगुणान् निहन्ति किं मौर्ख्यमेकं न शरीरभाजाम् ॥

7765

एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ।
केनापि नूनं कविना च दृष्टं दारिद्र्यमेकं गुणराशिनाशि ॥

7766

एको ह्यमात्यो मेधावी शूरो दान्तो विचक्षणः ।
राजानं राजपुत्रं वा प्रापयेन् महतीं श्रियम् ॥

7767

एणः क्रीडति शूकरश्च खनति द्वीपी च गर्वायते क्रोष्टा क्रन्दति वल्गते च शशको वेगाद् रुरुर्धावति ।
निःशङ्कः करिपोतकस्तरुलतामुन्मोटते लीलया हंहो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते ॥

7768

एणश्रेणिः शशकनिकरः शल्लकीनां कदम्बं कोलव्यूहः स्पृशति सुखितां यत्र तत्रापि कुञ्जे ।
को नामास्मिन् बत हतवने पादपस्तादृगुच्चैर् यस्य च्छायामयमधिवसत्युष्णरुग्णो गजेन्द्रः ॥

7769

एणाक्षीस्पृहयालुता न कथमप्यास्ते विवेकोदयान् नित्यं प्रच्युतिशङ्कया क्षणमपि स्वर्गे न मोदामहे ।
अप्यन्येषु विनाशिवस्तुविषयाभोगेषु तृष्णा न मे स्वर्णद्याः पुलिने परं हरिपदध्यानं समीहामहे ॥

7770

एणाद्याः पशवः किरातपरिषन्नैषा गुणग्राहिणी संचारोऽपि न नागरस्य विषयोच्छिन्नं मुनीनां मनः ।
धूमेनैव सुगन्धिना प्रतिपदं दिक्चक्रमामोदयन् आमूलं परिदह्यतेऽगुरुतरुः कस्मै किमाचक्ष्महे ॥

7771

एणीगणेषु गुरुगर्वनिमीलिताक्षः किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ- मुक्तामयीं हरिविहारवसुन्धरायाः ॥

7772

एणीदृशः पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः ।
सरोजकोशादिव निष्पतन्ती श्रेणी घनीभूय मधुव्रतानाम् ॥

7773

एणीदृशः श्रवणसीम्नि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य ।
त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत् तु तवैव हानिः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc