भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7734-7753

7734

एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानं राजमात्रं वा प्रापयेन् महतीं श्रियम् ॥

7735

एको बटुर्दर्भकुशाग्रपाणिर् वने वनैः सिञ्चति बालचूतान् ।
आम्राश्च सिक्ताः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरी प्रसिद्धा ॥

7736

एको बहूनां मूर्खाणां मध्ये निपतितो बुधः ।
पद्मः पाथस्तरङ्गाणां इव विप्लवते ध्रुवम् ॥

7737

एको बाणः स्फुरति वलितालोकनं कामिनीनां कामस्यान्यो मलयपवनः कामिनां मर्मभेदी ।
वीणावेणुक्वणितमपरश्चूतपुष्पं तुरीयः सर्वोत्कण्ठप्रथमसचिवः पञ्चमः पञ्चमोऽपि ॥

7738

एको भवान् मम समं दश वा नमन्ति ज्याघोषपूरितवियन्ति शरासनानि ।
तल्लोकपालसहितः सह लक्ष्मणेन चापं गृहाण सदृशं क्षणमस्तु युद्धम् ॥

7739

एको भावः सदा शस्तो यतीनां भावितात्मनाम् ।
श्रीलुब्धानां न लोकानां विशेषेण महीभुजाम् ॥

7740

एकोऽभूत् पुलिनात् ततस्तु नलिनाच्चान्योऽपि नाकोरभूत् प्राच्यास्ते त्रय एव दिव्यकवयो दीव्यन्तु देव्या गिरा ।
अर्वाञ्चो यदि गद्यपद्यरचनाचातुर्यवागुद्धतास् तान् सर्वानतिशय्य खेलतितरां शाकल्लमल्लः कविः ॥

7741

एकोऽभून्नलिनात् ततश्च पुलिनाद् वल्मीकतश्चापरस् ते सर्वे कवयो भवन्ति गुरवस् तेभ्यो नमस्कुर्महे ।
अर्वाञ्चो यदि गद्यपद्यरचनैश् चेतश् चमत्कुर्वते तेषां मूर्ध्नि ददामि वामचरणं कर्णाटराजप्रिया ॥

7742

एको भेकः परममुदितः प्राप्य गोष्पादनीरं को मे को मे रटति सततं स्पर्द्धया वाक्यमुच्चैः ।
गङ्गादीनां सकलसरितां प्राप्य तोयं समुद्रः किंचिद् गर्वं न वहति महान् प्रायशो भूरि रत्नैः ॥

7743

एको मे शाश्वतात्मा सुखमसुखभुजो ज्ञानदृष्टिस्वभावो नान्यत् किंचिन्निजं मे तनुधनकरणभ्रातृभार्यासुखादि ।
कर्मोद्भूतं समस्तं चपलमसुखदं तत्र मोहो मुधा मे पर्यालोच्येति जीव स्वहितमवितथं मुक्तिमार्गं श्रय त्वम् ॥

7744

एकोऽम्बुधिर्जगति जीवति येन तानि तावन्ति हन्त सलिलानि समुच्चितानि ।
येभ्यः कथंचिदपि किंचिदमी पयोदाः पीत्वा चिराय धरणीमपि तर्पयन्ति ॥

7745

एको रविरतितेजा अतिशूरः केसरी वने वासी ।
अतिविपुलं खं शून्यं ह्यतिगम्भीरोऽम्बुधिः क्षारः ॥

7746

एको रसः करुण एव निमित्त भेदाद् भिन्नः पृथक् पृथगिवाश्रयते विवर्तान् ।
आवर्तबुद्बुदतरङ्गमयान् विकारान् अम्भो यथा सलिलमेव हि तत् समस्तम् ॥

7747

एको रागिषु राजते प्रियतमादेहार्धहारी हरो नीरागेषु जिनो विमुक्तललनासङ्गो न यस्मात् परः ।
दुर्वारस्मरबाणपन्नगविषव्यासङ्गमुग्धो जनः शेषः कामविडम्बितो हि विषयान् भोक्तुं न मोक्तुं क्षमः ॥

7748

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः ।
एकः कार्याणि कुरुते तमाहुर् मध्यमं नरम् ॥

7749

एको ललाटे द्वौ मूर्ध्नि द्वौ द्वौ पार्श्वोपपार्श्वयोः ।
द्वौ च वक्षसि विज्ञेयौ प्रयाणे चैक एव तु ॥

7750

एको लोभो महाग्राहो लोभात् पापं प्रवर्तते ।
ततः पापादधर्माप्तिस् ततो दुःखं प्रवर्तते ॥

7751

एको वित्तवतः सूनुः पितृहीनः सुयौवने ।
मुग्धे भूभुजि कायस्थः कामिस्पर्धी वणिक्सुतः ॥

7752

नित्यातुरामात्यवैद्यप्रसिद्धस्य गुरोः सुतः ।
... ... प्रच्छन्नकामो जटाधरः ॥

7753

नपुंसकप्रवादस्य प्रशमार्थी फलाशनः ।
मत्तो धूर्तसहायश्च राजसूनुर्निरङ्कुशः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc