महासुभाषितसंग्रह · श्लोक 7714-7733
एकोदराः पृथग्ग्रीवा अन्यान्यफलभक्षिणः ।
असंहता विनश्यन्ति भारुण्डा इव पक्षिणः ॥
एको दाशरथिः कामं यातुधानाः सहस्रशः ।
ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः ॥
एको देवः केशवो वा शिवो वा एकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा एका भार्या सुन्दरी वा दरी वा ॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।
विद्यैका परमा दृष्टिर् अहिंसैका सुखावहा ॥
एको न रोपितो यावद् उत्पन्नोऽयं व्रणोऽपरः ।
सत्यः प्रवादो यच्छिद्रेष्व् अनर्था यान्ति भूरिताम् ॥
एकोना विंशतिः स्त्रीणां स्नानार्थं सरयूं गता ।
विंशतिः पुनरायाता एको व्याघ्रेण भक्षितः ॥
एकोना विंशतिर्नार्यः क्रीडां कर्तुं वने गताः ।
विंशतिर्गृहमायाताः शेषो व्याघ्रेण भक्षितः ॥
एको नेता क्षत्रियो वा द्विजो वा चैका विद्यान्वीक्षिकी वा त्रयी वा ।
एका भार्या वंशजा वा प्रिया वाप्य् एकं मित्रं भूपतिर्वा यतिर्वा ॥
एकोऽन्ते द्विसमस्त्रिलोचन इति ख्यातश्चतुर्भिः स्तुतो वेदैः पञ्चमुखः षडाननपिता सप्तर्षिभिर्वन्दितः ।
अष्टाङ्गो नवतुल्य आमरगणे वासो दशाशा दधत् स्वश्चैकादश सोऽवतान्न विजितो यो द्वादशात्मांशुभिः ॥
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥
एकोऽपि कोऽपि सेव्यो यः क्षीणं क्षीणं पुनर्नवम् ।
अनुद्विग्नं करोत्येव सूर्यश्चन्द्रमसं यथा ॥
एकोऽपि गुणवान् पुत्रो निर्गुणेन शतेन किम् ।
एकश्चन्द्रस् तमो हन्ति न च ताराः सहस्रशः ॥
एकोऽपि गुणवान् पुत्रो निर्गुणैः किं शतैरपि ।
एकश्चन्द्रो जगन्नेत्रं नक्षत्रैः किं प्रयोजनम् ॥
एकोऽपि गुणवान् पुत्रो मा निर्गुणशतं भवेत् ।
एकश्चन्द्रस् तमो हन्ति न च ताराः सहस्रशः ॥
एकोऽपि जीयते हन्त कालिदासो न केनचित् ।
शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ॥
एकोऽपि त्रय इव भाति कन्दुकोऽयं कान्तायाः करतलरागरक्तरक्तः ।
भूमौ तच्चरणनखांशुगौरगौरः स्वःस्थः सन् नयनमरीचिनीलनीलः ॥
एकोऽपि यः सकलकार्यविधौ समर्थः सत्त्वाधिको भवतु किं बहुभिः प्रसूतैः ।
चन्द्रः प्रकाशयति दिङ्मुखमण्डलानि तारागणः समुदितोऽप्यसमर्थ एव ॥
एकोऽपि यत्र नगरे प्रसिद्धः स्याद् धनुर्घरः ।
ततो यान्त्यरयो दूरं मृगाः सिंहगृहादिव ॥
एकोऽपि वारणपतिर्द्विषतामनीकं युक्तं निहन्ति मदसत्त्वगुणोपपन्नः ।
नागेषु हि क्षितिभृतां विजयो निबद्धस् तस्माद् गजाधिकबलो नृपतिः सदा स्यात् ॥
एकोऽपि सिंहः साहस्रं यूथं मथ्नाति दन्तिनाम् ।
तस्मात् सिंहमिवोदारम् आत्मानं वीक्ष्य संपतेत् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0