महासुभाषितसंग्रह · श्लोक 7352-7371
ऋणत्रयमपाकर्तुं शास्त्राज्ञाभङ्गभीः पुरः ।
चतुर्थर्णनिराकारे प्रत्यक्षं नृपतेर्भयम् ॥
ऋणदाता च दैवज्ञः श्रोत्रियः सुजला नदी ।
यत्र ह्येते न विद्यन्ते न तत्र दिवसं वसेत् ॥
ऋणदैः स्वजनैः पुत्रैर् लब्धक्षामप्रतिग्रहः ।
नित्यमायास्यते येन कलिदानेन तेन किम् ॥
ऋणपापसमुद्धाराद् ऋणोद्धारो वरः स्मृतः ।
परलोके दहेत् पापम् ऋणाग्निरिह तत्र च ॥
ऋणप्रदाता वैद्यस्तु श्रोत्रियः सजला नदी ।
राजा यत्र न विद्यन्ते न कुर्यात् तत्र संस्थितिम् ॥
ऋणमाद्यं निराकृत्य निराकर्तुमृणान्तरम् ।
प्रतिष्ठा राजते यस्य गृहस्थाश्रम एव सः ॥
ऋणवच् चिरसंशोध्यं वचसा प्रतिपादितम् ।
यन् नित्ययाचनद्वेषं याच्यदानेन तेन किम् ॥
ऋणशेषं रोगशेषं शत्रुशेषं न रक्षयेत् ।
याचकाद्यैः प्रार्थितः सन् न तीक्ष्णं चोत्तरं वदेत् ।
तत्कार्यं तु समर्थश्चेत् कुर्याद् वा कारयीत च ॥
ऋणशेषोऽग्निशेषश्च व्याधिशेषस् तथैव च ।
पुनश्च वर्धते यस्मात् तस्माच्छेषं च कारयेत् ॥
ऋणशेषोऽग्निशेषश्च शत्रुशेषस् तथैव च ।
पुनः पुनर् विवर्धेत स्वल्पोऽप्यनिवारितः ॥
ऋणसंबन्धिनः सर्वे पुत्रदारं पशुस्तथा ।
ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ॥
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥
ऋणानुबन्धरूपेण पशुपत्नीसुतालयाः ।
ऋणक्षये क्षयं यान्ति का तत्र परिदेवना ॥
ऋणिकैः कलहैर्नित्यम् अच्छिन्नगणनागतेः ।
दानद्विषोऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥
ऋणीकृता किं हरिणीभिरासीद् अस्याः सकाशान् नयनद्वयश्रीः ।
भूयोगुणेयं सकला बलाद् यत् ताभ्योऽनयालभ्यत बिभ्यतीभ्यः ॥
ऋतुमत्यां तु तिष्ठन्त्यां स्वेच्छादानं विधीयते ।
तस्मादुद्वाहयेन् नग्नां मनुः स्वायंभुवोऽब्रवीत् ॥
ऋतुर्मासद्वयेनैव षण्मासैरयनं स्मृतम् ।
अयनद्वितयं वर्षो देवानां वासरो निशा ॥
ऋतुर्व्यतीतः परिवर्तते पुनः क्षयं प्रयातः पुनरेति चन्द्रमाः ।
गतं गतं नैव तु संनिवर्तते जलं नदीनां च नृणां च यौवनम् ॥
ऋतुस्नातां तु यो भार्यां नैव गच्छति मूढधीः ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः ॥
ऋतुस्नाता पिबेन् नारी श्वेतकण्टारिकाजटाम् ।
पयसा पुत्रसंभूतिस् तस्याः संजायते ध्रुवम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0