महासुभाषितसंग्रह · श्लोक 7332-7351
ऋग्यजुःसामनामानस् त्रयो वेदास् त्रयी स्मृता ।
उभौ लोकाववाप्नोति त्रय्यां तिष्ठन् यथाविधि ॥
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सस्मितां कथां नयनोपान्तविलोकितं च यत् ॥
ऋजुता धन्वगुणयोर् अस्तु वस्तुस्वरूपतः ।
कार्यसिद्धौ प्रशस्येत वक्रतैव तयोः पुनः ॥
ऋजुत्वं च परित्यज्य कलां दर्शयतोऽर्चना ।
द्विजराजोऽनृजुत्वेन महेशेनापि मह्यते ॥
ऋजुत्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरिक्तश्च सत्यता च सुहृद्गुणाः ॥
ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत् परमेव हिंसितुम् ।
अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः शरः ॥
ऋजुदृशः कथयन्ति पुराविदो मधुभिदं किल राहुशिरश्छिदम् ।
विरहिमूर्धभिदं निगदन्ति न क्व नु शशी यदि तज्जठरानलः ॥
ऋजुनयननिपातः कामतन्त्राभिघातस् तनुरपि तरलाक्ष्याः कस्य न स्यात् कटाक्षः ।
इति नमितमुखेन्दुं पश्यति प्राणनाथं जनसदसि विदग्धा पक्ष्मणामन्तरेण ॥
ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् ।
इह डाकिनीति पल्ली- पतिः कटाक्षेऽपि दण्डयति ॥
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।
आसीनमपि तूष्णीकम् अनुरज्यन्ति तं प्रजाः ॥
ऋजुरेष पक्षवानिति काण्डे प्रीतिं खले च मा कार्षीः ।
प्रायेण त्यक्तगुणः फलेन हृदयं विदारयति ॥
ऋज्वायतां च विरलां च नतोन्नतां च सप्तर्षिवंशकुटिलां च निवर्तनेषु ।
निर्मुच्यमानभुजगोदरनिर्मलस्य सीमामिवाम्बरतलस्य विभज्यमानाम् ॥
ऋज्वायतां हि मुखतोरणलोलमालां भ्रष्टां क्षितौ त्वमवगच्छसि मूर्ख सर्पम् ।
मन्दानिलेन निशि या परिवर्तमाना किंचित् करोति भुजगस्य विचेष्टितानि ॥
ऋज्वी दृष्टिरनुल्बणं विहसितं मन्दं परिस्पन्दितं द्वेषो नर्मणि दूरतीर्थगमने यत्नो रतिर्लिङ्गिषु ।
यस्यास्त्यक्तसुखस्पृहं किल वपुः पीनाल्पलम्बस्तनी सक्षीरा विटचेटकैकमहिषी रण्डा शिवायास्तु वः ॥
ऋज्वी स्थिरा सुवृत्ता पाणिग्रहणोज्ज्वला सुवंशोत्था ।
संधारयति पतन्तं संप्रति गृहणीव यष्टिर्माम् ॥
ऋणं कृतं त्वदत्तं चेद् बाधतेऽत्र परत्र च ।
न नश्येद् दुष्कृतं तद्वद् भुक्तिं वा निष्कृतिं विना ॥
ऋणं मित्रान्न कर्तव्यं न देयं चापि मित्रके ।
प्रीतिच्छेदकरी ज्ञेया यस्माद् वै ऋणकर्तरी ॥
ऋणं याच्ञा च वृद्धत्वं जारचोरदरिद्रताः ।
रोगश्च भुक्तशेषश्चाप्य् अष्ट कष्टाः प्रकीर्तिताः ॥
ऋणकर्ता पिता शत्रुर् माता च व्यभिचारिणी ।
भार्या रूपवती शत्रुः पुत्रः शत्रुरपण्डितः ॥
ऋणत्रयं द्विजातीनां जन्मनः प्रभृति स्थितम् ।
ऋणान्तरभृतां पुंसां जीवनं जीवनं विना ॥
ऋणत्रयं निराकारि नूत्नं चाकारि येन नो ।
स एकः सुकृती लोकः सर्वत्र सुखमेधते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0