भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7372-7391

7372

ऋतेन जीवेदनृतेन जीवेन् मितेन जीवेत् प्रमितेन जीवेत् ।
सत्यानृताभ्यामथवापि जीवेत् श्ववृत्तिमेकां परिवर्जयेत् तु ॥

7373

ऋते नियोगात् सामर्थ्यम् अवबोद्धुं न शक्यते ।
सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥

7374

ऋते यदर्थं प्रणयाद् रक्ष्यते यच्च रक्षति ।
पूर्वोपचितसंबन्धं तन् मित्रं नित्यमुच्यते ॥

7375

ऋते सेनाप्रणेतारं पृतना सुमहत्यपि ।
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ॥

7376

ऋत्विक्पुरोहिताचार्याः शिष्याः संबन्धिबान्धवाः ।
सर्वे पूज्याश्च मान्याश्च श्रुतवृत्तोपसंहिताः ॥

7377

ऋद्धिमान् राक्षसो मूढश् चित्रम् नासौ यदुद्धतः ।
को वा हेतुरनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥

7378

... ... ... ... ... ... ।
ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ॥

7379

ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः ।
को वेद गोष्ठमेतद् गोशान्तौ विहितबहुमानम् ॥

7380

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥

7381

ऋषयोऽप्युग्रतपसो दैवेनाभिप्रपीडिताः ।
उत्सृज्य नियमांस् तीव्रान् भ्रश्यन्ते काममन्युभिः ॥

7382

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्वे हरेरेव सप्रजापतयस् तथा ॥

7383

ऋषयो राक्षसीमाहुर् वाचमुन्मत्तदृप्तयोः ।
सा योनिः सर्ववैराणां सा हि लोकस्य निरृतिः ॥

7384

ऋषिरयमतिथिश्चेद् विष्टरः पाद्यमर्घ्यं तदनु च मधुपर्कः कल्प्यतां श्रोत्रियाय ।
अथ तु रिपुरकस्माद् द्वेष्टि नः पुत्रभाण्डं तदिह नयविहीने कार्मुकस्याधिकारः ॥

7385

ऋषिसेना विना वेदम् अप्रिया सहगामिनी ।
देवसेना विना दात् न् अविष्णुः पृथिवीपतिः ॥

7386

ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यवृद्धांश्च वने मुनींश्च ।
कानापदो नोपनमन्ति लोके परावरज्ञास्तु न संभ्रमन्ति ॥

7387

ऋषीणां च नदीनां च कुलानां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥

7388

ऋषीणां परमं गुह्यम् इदं भरतसत्तम ।
तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥

7389

ऋषेरस्याश्रमे पुण्ये शापसंत्रस्तमानसः ।
मुद्बोधतोऽपि प्रायोऽयं मृगात् सिंहः पलायते ॥

7390

एकं काञ्चनभूधरं सुवलयं वासः सुधावारिधिं तारं तारकराजमण्डलमिदं संप्राप्य सत्कुण्डलम् ।
दूरस्थापि च तेन तेन सदृशं त्वां भूषणं चापरं स्त्री मानग्रहिलेव याचतितरां श्रीराम कीर्तिस्तव ॥

7391

एकं चक्षुर्विवेको हि द्वितीयं सत्समागमः ।
तौ न स्तो यस्य स क्षिप्रं मोहकूपे पतेद् ध्रुवम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc