भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7312-7331

7312

ऊर्ध्वं श्वसंस्ततः प्राणो यात्यलब्धस्थितिस् तनोः ।
तं यान्तमनुयात्येव जीवः कालप्रणोदितः ॥

7313

ऊर्ध्वगं कपिलाभासम् अङ्गं यस्मिन् प्रतीयते ।
नकुलाङ्गं तु तं विद्यात् स्पर्शस् तस्याहिनाशनः ॥

7314

ऊर्ध्वबाहुर् विरौम्येष न च कश्चिच् श्र्णोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते ॥

7315

ऊर्ध्ववेधी भवेज् ज्येष्ठो नाभिवेदी च मध्यमः ।
यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥

7316

ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् ।
मध्यशक्तिप्रबोधेन जायते परमं सुखम् ॥

7317

ऊर्ध्वानना भास्करसंमुखीनाः श्वानो रुवन्तो महते भयाय ।
एवं हि संध्यासमयेऽन्यदा तु निर्वासकाः स्युर्नगरस्य तस्य ॥

7318

ऊर्ध्वारोहे य आलम्बहेतुर् भूभृच् छिनत्ति तम् ।
कुठारिकस् तरुस्कन्धम् इवाधोगमनोन्मुखः ॥

7319

ऊर्ध्वार्धे लक्षणं यस्य नाधोऽर्धे लक्षणं भवेत् ।
तं खड्गं मध्यमं प्राहुः प्रवीणमतयो बुधाः ॥

7320

ऊर्ध्वीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम् ।
अत्यूर्जितं गर्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस्तु दूरम् ॥

7321

ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ॥

7322

ऊषरं कर्मसस्यानां क्षेत्रं वाराणसी पुरी ।
यत्र संलभ्यते मोक्षः समं चण्डालपण्डितैः ॥

7323

ऊषरेषु च क्षेत्रेषु यथा बीजं हि निष्फलम् ।
उपकारोऽपि नीचानां कृतो भवति तादृशः ॥

7324

ऊषरेषु विवरेषु चाम्भसां वीचयोऽपि भवता विनिर्मिताः ।
क्षेत्रसीम्नि निहितास्तु बिन्दवो वारिवाह भवतो नवो नयः ॥

7325

ऊषरे सरिति शाल्मलीवने दावपावकचितेऽपि चन्दने ।
तुल्यमर्पयति वारि वारिदे कीर्तिरस्तु गुणगौरवैर्गतम् ॥

7326

ऊष्मव्यपेता रहिताश्च वृद्ध्या संयोगहीना लघवोऽपि चान्तः ।
श्लोकस्य वर्णा इव विद्विषस्ते पादान्तमागम्य गुरूभवन्ति ॥

7327

ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले ।
निर्देष्टव्या च शिरा महता वारिप्रवाहेण ॥

7328

ऊष्मा हि वित्तजो वृद्धिं तेजो नयति देहिनाम् ।
किं पुनस् तस्य संभोगस् त्यागधर्मसमन्वितः ॥

7329

ऋक्षस्य क्रोडसंधिप्रहितमुखतया मण्डलीभूतमूर्तेर् आरात् सुप्तस्य वीर त्वदरिवरपुरद्वारि नीहारकाले ।
प्रातर्निद्राविनोदक्रमजनितसुखोन्मीलितं चक्षुरेकं व्याधाः पालालभस्मस्थितदहनकणाकारमालोकयन्ति ॥

7330

ऋक्षाणां भूरिधाम्नां श्रितमधिपतिना प्रस्फुरद्भीमतारं स्फारं नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन ।
रामायत्तं पुरारेः कुमुदशुचि लसन्नीलसुग्रीवमङ्गं प्लावङ्गं सैन्यमन्यद् दशवदनशिरच्छेदहेतु श्रियै वः ॥

7331

ऋक्षैर्वृतो हरिपदे निवसन् समीर- संतानशैत्यजनकः कुमुदप्रमोदी ।
निघ्नन् निशाचरतमः पृथुनीललक्ष्मा तारापतिः स्फुरति चित्रमनङ्गदोऽयम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc