भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7272-7291

7272

उषसि भ्रमरयुवानः स्वप्ने दृष्ट्वा सरोजसाम्राज्यम् ।
गतकल्पकुन्दतल्पाः सरसीसलिलानि जिघ्रन्ति ॥

7273

उषसि मलयवासी जालमार्गप्रविष्टो विकचकमलरेणुं व्याकिरन् मोहचूर्णम् ।
सपदि शमितदीपो वायुचोरो वधूनां हरति सुरतखेदस्वेदमुक्ताफलानि ॥

7274

उषस्येव भ्रान्तं हतजठरहेतोस् तत इतः स्वयं च स्वं बिभ्रद् विचरति कुटुम्बं दिशि दिशि ।
बतास्माभिः काकैरिव कवलमात्रैकमुदितैर् न चायुर्दुर्गत्योरवधिरिह लब्धः कथमपि ॥

7275

उषापतिमुखाम्भोजे नरीनर्ति सरस्वती ।
ऋतुराजकवेरेव गायन्ती गुणगौरवम् ॥

7276

उष्ट्राणां च विवाहेषु गीतं गायन्ति गर्दभाः ।
परस्परं प्रशंसन्ति अहो रूपमहो अहो ध्वनिः ॥

7277

उष्णं जलं क्षिपेत् तत्र मात्रा नास्तीह कस्यचित् ।
पक्षैकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।
कुणपस्तु भवेदेव तरूणां पुष्टिकारकः ॥

7278

उष्णकाले जलं दद्याच् शीतकाले हुताशनम् ।
प्रावृट्काले गृहं देयं सर्वकाले च भोजनम् ॥

7279

उष्णमन्नं घृतं मद्यं तरुणी क्षीरभोजनम् ।
वापीकपवटच्छाया षड्कं तत् बलवर्धनम् ॥

7280

उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः ।
तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥

7281

उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम् ।
नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्यः स्पृहयालु धाम धवलं दीने दयालु श्रये ॥

7282

उष्णीषवान् यथा वस्त्रैस् त्रिभिर्भवति संवृतः ।
संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥

7283

उष्मायमाणस्तनमण्डलीभिर् वाराङ्गनाभिः स्फुटविभ्रमाभिः ।
आलिङ्गिता रात्रिषु शैशिरीषु ते शेरते यैः प्रणतो शशाङ्कः ॥

7284

ऊचिवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ।
कीर्तिरेव भवतां प्रियदारा दाननीरझरमौक्तिकहारा ॥
ऊढा खड्गलता श्यामा त्वया मातङ्गदारिका ।
अत एव भवान् मन्ये दूरं परिहृतः परैः ॥

7285

ऊढापि द्युतरङ्गिणि त्रिजगतीवन्द्येन तेनाप्यहो मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते ।
तारक्षारकरं करालमकरं सश्वभ्रमभ्रंकषं मुग्धे जाड्यनिधिं मुधा जलनिधिं यातासि चित्राः स्त्रियः ॥

7286

ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।
सर्वंसहे कठोर- त्वचः किमङ्केन कमठस्य ॥

7287

ऊढा येन महाधुराः सुविषमे मार्गे सदैकाकिना सोढो येन कदाचिदेव न निजे गोष्ठेऽन्यशौण्डध्वनिः ।
आसीद् यस्तु गवां गणस्य तिलकस् तस्यैद संप्रत्यहो धिक् कष्टं धवलस्य जातजरसो गोः पण्यमुद्घोष्यते ॥

7288

ऊधश्छिन्द्याद्धि यो धेन्वाः क्षीरार्थी न लभेत् पयः ।
एवं राष्ट्रमयोगेन पीडितं न विवर्धते ॥

7289

ऊनषोडशवर्षायाम् अप्राप्तः पञ्चविंशतिम् ।
यद्याधत्ते पुमान् गर्भः कुक्षिस्थः स विपद्यते ॥

7290

ऊने दद्याद् गुरूनेव यावत् सर्वलघुर्भवेत् ।
प्रस्तारोऽयं समाख्यातश् छन्दोविचितिवेदिभिः ॥

7291

ऊनेनापि हि तुच्छेन वैरिणापि कथंचन ।
मैत्री बुद्धिमता कार्या आपद्यपि निवर्तते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc