महासुभाषितसंग्रह · श्लोक 7292-7311
ऊरीकर्तुं तुहिनकिरणप्रीतिधारामुदारां दूरीकर्तुं दिनकरकरक्लेशबाधामगाधाम् ।
यस्याः पुण्ये पयसि विशति स्नातुकामा त्रियामा प्रायस्तस्यास्तिमिरततिभिः श्यामलं नीरमस्याः ॥
ऊरुः कुरङ्गदृशश् चञ्चलचेलाञ्चलो भाति ।
सपताकः कनकमयो विजयस्तम्भः स्मरस्येव ॥
ऊरुद्वन्द्वमनिन्दितं प्रथयता श्रोणीं समातन्वता रोमालीं सृजता समागमयता नाभिं गभीरश्रिया ।
मध्यं क्षामयता स्तनौ घनयता कान्त्या मुखं लिम्पता तन्वङ्ग्या नवयौवनेन किमपि प्रत्यङ्गमुन्मीलितम् ॥
ऊरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।
वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥
ऊरुद्वयं मृगदृशः कदलस्य काण्डौ मध्यं च वेदिरतुलं स्तनयुग्ममस्याः ।
लावण्यवारिपरिपूरितशातकुम्भ- कुम्भौ मनोजनृपतेरभिषेचनाय ॥
ऊरुप्रकाण्डद्वितयेन तन्व्याः करः पराजीयत वारणीयः ।
युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं मुखपुष्करं सः ॥
ऊरुमूलगतनेत्रयुगस्य प्रेयसो रभसवेल्लितकेशी ।
चुम्बति स्म रतिकेलिविदग्धा हावहारि वदनं दयितस्य ॥
ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुमुमैः प्रियमेताः ।
चक्रिरे सपदि तानि यथार्थं मन्मथस्य कुसुमायुधनाम ॥
ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम् ।
नाभिः कूपो वलिरपि सरित्पल्लवः किं च पाणिर् यस्याः सा चेद् उरसि न कथं हन्त तापस्य शान्तिः ॥
ऊरू रम्भे बाहू लते विधात्रा कुचौ पुनः कमले ।
यौवनमुपवनमस्यां मदनविलासाय किं रचितम् ॥
ऊरौ शिरस्तव निवेश्य दयावितीर्ण- संयानपल्लवसमीरविनीतखेदम् ।
अत्रैव जन्मनि विभोः परमोपदेशम् आकर्णयेयमपि किं मणिकर्णिकायाम् ॥
ऊर्जितं सज्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवलीकुरुते स्वस्थं विधुं दिवि विधुंतुदः ॥
ऊर्णां नैव ददाति नैव विषयो वाहस्य दोहस्य वा तृप्तिर्नास्ति महोदरस्य बहुभिर्घासैः पलाशैरपि ।
हा कष्टं कथमस्य पृष्ठशिखरे गोणी समारोप्यते को गृह्णाति कपर्दकैरलमिति ग्राम्यैर्गजो हस्यते ॥
ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः ।
तस्य गौरवमर्थस्य तावतैवानुमीयताम् ॥
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥
ऊर्ध्वं न क्षीरविच्छेदात् पयो धेनोरवाप्यते ।
एवं राष्ट्रादयोगेन पीडितान्नाप्यते बलिः ॥
ऊर्ध्वं नीरदवृन्दमैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः पल्वलचित्रितस्य निहितौ शैलावुपर्युन्नतौ ।
किं चाधः पुलिनोच्चयस्य कदलीकाण्डाववारोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽयमन्यादृशः ॥
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥
ऊर्ध्वं याति चापमुष्टिर् गुणमुष्टिरधो भवेत् ।
स मुक्तो मार्गणो लक्ष्याद् दूरं याति न संशयः ॥
ऊर्ध्वंव्रीहित्रयं मानम् अङ्गुलस्य निगद्यते ।
हस्तोऽपि हि समाख्यातश् चतुर्विशद्भिरङ्गुलैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0