महासुभाषितसंग्रह · श्लोक 7252-7271
उल्लङ्घ्यापि सखीवचः समुचितामुत्सृज्य लज्जामलं हित्वा भीतिभरं निरस्य च निजं सौभाग्यगर्वं मनाक् ।
आज्ञां केवलमेव मन्मथगुरोरादाय नूनं मया त्वं निःशेषविलासिवर्गगणनाचूडामणिः संश्रितः ॥
उल्लसत्सौरभैः पुष्पैर् बिभ्रन्मालां सुगुम्फिताम् ।
पर्य्यन्तस्थायिनोऽप्यन्यान् आमोदयति भूपतिः ॥
उल्लसितभ्रूः किमति- क्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।
क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥
उल्लसितभ्रूधनुषा तवपृथुना लोचनेन रुचिराङ्गि ।
अचला अपि न महान्तः के चञ्चलभावमानीताः ॥
उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति ।
आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥
उल्लसितशीतदीधिति- कलोपकण्ठे स्फुरन्ति तारौघाः ।
कुसुमायुधविधृतधनुर्- निर्गतमकरन्दबिन्दुनिभाः ॥
उल्लापयन्त्या दयितस्य दूतीं वध्वा विभूषां च निवेशयन्त्याः ।
प्रसन्नता कापि मुखस्य जज्ञे वेषश्रिया नु प्रियवार्तया नु ॥
उल्लासोऽधरपल्लवस्य तनुते पर्याप्तमस्याः स्मिते विन्यासो नयनाञ्चलस्य गमयत्युत्साहवत् साहसम् ।
रत्यागारपथामुखीनगमकं वैजात्यकक्षावधिः पर्यङ्के पदरोपणं पुनरपर्यन्ता विपर्यस्तता ॥
उल्लासो विरुतेन मङ्गलबलिग्रासेन विश्वासनं संचारेण कृतो विलोचनयुगे बाष्पोद्गमावग्रहः ।
यातोऽस्तम् रविरेष संप्रति पुरः स्वस्त्यस्तु ते गम्यताम् एते त्वामनुयान्तु संप्रति मम प्राणाः प्रियान्वेषिणः ॥
उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन ।
निर्वापितः सकल एव रणे रिपूणां धारा जलैस् त्रिजगति ज्वलितः प्रतापः ॥
उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबापि दृष्टिः ।
अश्मैव रत्यास् तदनर्ति पत्या छेदेऽप्यबोधं यदहर्षि लोम ॥
उल्लेखं निजमीक्षते भणितिषु प्रौढिं परां शिक्षते संधत्ते पदसंपदः परिचयं धत्ते ध्वनेरध्वनि ।
वैचित्र्यं वितनोति वाचकविधौ वाचस्पतेरन्तिके देव त्वद्गुणवर्णनाय कुरुते किं किं न वाग्देवता ॥
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् ।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥
उषःकालश्च गर्गश्च शकुनं च बृहस्पतिः ।
अङ्गिराश्च मनोत्साहो विप्रवाक्यं जनार्दनः ॥
उषः शशंस गार्ग्यस्तु शकुनं तु बृहस्पतिः ।
मनोजयं तु माण्डव्यो विप्रवाक्यं जनार्दनः ॥
उषसि गुरुसमक्षं लज्जमाना मृगाक्षी रतिरुतमनुकर्तुं राजकीरे प्रवृत्ते ।
तिरयति शिशुलीलानर्तनच्छद्मताल- प्रचलवलयमालास्फालकोलाहलेन ॥
उषसि गुरुसमीपे वाससा सावधाना प्रियलिखितनखाङ्कं गोपयन्ती समन्तात् ।
किमिदमिति सखीभिः सादरं पृच्छ्यमाना हरि हरि हरिणाक्षी ह्रीसमुद्रे निमग्ना ॥
उषसि निबिडयन्त्याः कुण्डलं केलिपर्या- विलविगलितमन्तः कर्णपालि प्रियायाः ।
सरसहसिततिर्यग्भङ्गुरापाङ्गरीतिः सुकृतिभिरवलीढा लोचनाभ्यां मुखश्रीः ॥
उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् ।
पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0