महासुभाषितसंग्रह · श्लोक 7152-7171
उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके ।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥
उपंशुक्रीडितोऽमात्यः स्वयं राजायते यतः ।
अवज्ञा क्रियते तेन सदा परिचयाद् ध्रुवम् ॥
उपाकृताया नवयौवनेन यान्त्या गलत्साञ्जनबाष्पपूरम् ।
बाल्यश्रियः किं पदवी विरेजे रोमावली खञ्जनलोचनायाः ॥
उपाददे तस्य सहस्ररश्मिस् त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलाद् अविदूरमौलिर् बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥
उपादाता यावन्न भवति भवादृग्गुणवताम् असत्कल्पास्तावत् त्रिभुवनमहार्हा अपि गुणाः ।
अपि प्राग्दैत्यारेर्हृदयवसतेः कौस्तुभमणिः स किं नासीदब्धौ श्रुतिरपि किमस्य क्वचिदभूत् ॥
उपाधिभिः सततसंगतोऽपि नहि स्वभावं विजहाति भावः ।
आजन्म यो मज्जति दुग्धसिन्धौ तथापि काकः किल कृष्ण एव ॥
उपाध्यायं पितरं मातरं च येऽभिद्रुह्यन्ति मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्याविशिष्टं तस्मान्नान्यः पापकृदस्ति लोके ॥
उपाध्यायश्च वैद्यश्च प्रतिभूर्भुक्तनायिका ।
सूतिका दूतिकाश्चैव सिद्धे कार्ये तृणोपमाः ॥
उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पित् न् माता गौरवेणातिरिच्यते ॥
उपाध्वं तत् पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य स्वच्छं विलसथ विनीतक्लमभराः ।
इतस्तु क्षाराब्धेर्जरठमकरक्षुण्णपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि ॥
उपानहौ च यो दद्यात् पात्रभूते द्विजोत्तमे ।
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान् ॥
उपानीतं दूरात् परिमलमुपाघ्राय मरुता समायासीदस्मिन् मधुरमधुलोभान्मधुकरः ।
परो दूरे लाभः कुपितफणिनश् चन्दनतरोः पुनर्जीवन् यायाद् यदि तदिह लाभोऽयमतुलः ॥
उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती कदाचिद् गन्तासि प्रियसखि न शिप्रातटभुवम् ।
यदस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया वयोरूढः केकी लिखति नखरेण स्तनतटम् ॥
उपायं चिन्तयेत् प्राज्ञो ह्यपायमपि चिन्तयेत् ।
पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥
उपायं यं पुरस्कृत्य सेवते सेवकः प्रभुम् ।
अनन्तरज्ञस् तत्रैव योग्यं तं किल मन्यते ॥
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥
उपायज्ञश्च योगज्ञस् तत्त्वज्ञः प्रतिभानवान् ।
स्वधर्मनिरतो नित्यं परस्त्रीषु पराङ्मुखः ।
वक्तोहवांश्चित्रकथः स्यादकुण्ठितवाक् सदा ॥
उपायनीकृतं यत् तु सुहृत्सम्बन्धिबन्धुषु ।
विवाहादिषु चाचारदत्तं ह्रीदत्तमेव तत् ॥
उपायपूर्वं लिप्सेत कालं वीक्ष्य समुत्पतेत् ।
पश्चात्तापाय भवति विक्रमैकरसज्ञता ॥
उपायमास्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥
उपायानां च सर्वेषाम् उपायः पण्यसंभवः ।
धनार्थं शस्यते ह्येकस् तदन्यः संशयात्मकः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0