महासुभाषितसंग्रह · श्लोक 7132-7151
उपवनसलिलानां बालपद्मैर् भ्रमरपरभृतानां कण्ठनादैः ।
समदगतिविलासैः कामिनीनां कथयति पटुवृत्तं मधुमासः ॥
उपविशति नृपनियुक्तः केनचिदन्येन वा जनेनोक्तः ।
निजवेशजातिसमुचितम् आसनमालोक्य सेवते सुमतिः ॥
उपविष्टः सभामध्ये यो न वक्ति स्फुटं वचः ।
तस्माद् दूरेण स त्याज्यो न यो वा कीर्तयेद् ऋतम् ॥
उपवीणयन्ति परमप्सरसो नृपमानसिंह तव दानयशः ।
सुरशाखिमौलिकुसुमस्पृहया नमनाय तस्य यतमानतमाः ॥
उपशमफलाद् विद्याबीजात् फलं धनमिच्छतां भवति विफलः प्रारम्भो यत्तदत्र किमद्भुतम् ।
नियतविषयाः सर्वे भावा न यान्ति हि विक्रियां जनयितुमलं शालेर्बीजं न जातु यवाङ्कुरम् ॥
उपशमितमेघनादं प्रज्वलितदशाननं रमितरामम् ।
रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥
उपशोभैव सहायाः सिद्धिर्वीरस्य साहसे वसति ।
दलयति कुलानि करिणां किल हरिणपरिग्रहः सिंहः ॥
उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तसमयेऽपि सताम् उचितं खलूच्चतरमेव पदम् ॥
उपसर्गाः क्रियायोगे पाणिनेरिति संमतम् ।
निष्क्रियोऽपि तवारातिः सोपसर्गः सदा कथम् ॥
उपसर्गाः प्रवर्तन्ते दृष्टेऽप्यात्मनि योगिनः ।
ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥
उपसर्गेऽन्यचक्रे च दुर्भिक्षे च भयावहे ।
असाधुजनसंपर्के यः पलायेत् स जीवति ॥
उपसर्गैर्जितैरेभिर् उपसर्गास् ततः पुनः ।
योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः ॥
उपस्थितः प्राकृतपुण्यपाकात् पुरःस्थितो दक्षिणपाणिना स्वम् ।
शिरः स्पृशेद् दक्षिणचेष्टितो वा यो मण्डलो मण्डललाभदोऽसौ ॥
उपस्थितस्य कामस्य प्रतिवादो न विद्यते ।
अपि निर्मुक्तदेहस्य कामरक्तस्य किं पुनः ॥
उपस्थितायां विपदि घोरायां स्वीयरक्षणे ।
धीमद्भिः पुरुषैर्युक्तं वस्त्रं त्यक्त्वा पलायनम् ॥
उपस्थिते प्राणहरे कृतान्ते किमाशु कार्यं सुधिया प्रयत्नात् ।
वाक्कायचित्तैः सुखदं यमघ्नं मुरारिपादाम्बुजमेव चिन्त्यम् ॥
उपस्थिते विप्लव एव पुंसां समस्तभावः परिमीयतेऽन्तः ।
अवाति वायौ नहि तूलराशेर् गिरेश्च कश्चित् प्रतिभाति भेदः ॥
उपस्थिते विवाहे च दाने यज्ञे तथा विभो ।
समाचरति यो विघ्नं स मृत्वा जायते कृमिः ॥
उपहरणं विभवानां संहरणं सकलदुरितजालस्य ।
उद्धरणं संसाराच् चरणं वः श्रेयसेऽस्तु विश्वपतेः ॥
उपहासादिकं दूत्या नायिकायास्ततः परम् ।
अथ संभोगशृङ्गारे परस्परविलोकनम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0