महासुभाषितसंग्रह · श्लोक 7172-7191
उपाया युक्तयो मायाः कालयापनमुच्यते ।
निरपायो जयस्तूर्णम् एक एव पराक्रमः ॥
उपायेन जयो यादृग् रिपोस् तादृङ् न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
शृगालेन हतो हस्ती गच्छता पङ्कवर्त्मना ॥
उपायैरप्यशक्यास्ते जाने जेतुं नरेश्वराः ।
उपेक्षिता भविष्यन्ति संकल्पेऽप्यथ दुर्जयाः ॥
उपायैरिव तैः काले चतुर्भिः सुप्रयोजितैः ।
मैलुगिक्षोणिपालस्य राज्यं जातं सदोन्नतम् ॥
उपार्जितानामर्थानां त्याग एव हि रक्षणम् ।
तडागोदरसंस्थानां परीवाह इवाम्भसाम् ॥
उपालभ्यो नायं सकलभुवनाश्चर्यमहिमा हरेर्नाभीपद्मः प्रभवति हि सर्वत्र नियतिः ।
यदत्रैव ब्रह्मा पिबति निजमायुर्मधु पुनर् विलुम्पन्ति स्वेदाधिकममृतहृद्यं मधुलिहः ॥
उपासते यथा बाला मातरं क्षुधयार्दिताः ।
श्रेयस्कामास् तथा गङ्गाम् उपासन्तीह देहिनः ॥
उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया ।
रराजतुर् माङ्गलिकेन संगतौ भुजौ सुदत्या वलयेन कम्बुनः ॥
उपेक्षणीयैव परस्य वृद्धिः प्रनष्टनीतेरजितेन्द्रियस्य ।
मदादियुक्तस्य विरागहेतुः समूलघातं विनिहन्ति चान्ते ॥
उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात् पुरुषैर्मदान्धैः ।
साध्योऽपि भूत्वा प्रथमं ततोऽसाव् असाध्यतां व्याधिरिव प्रयाति ॥
उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर् भवत्येषा विकत्थना ॥
उपेक्षेत प्रनष्टं यत् प्राप्तं यत् तदुपाहरेत् ।
न बालं न स्त्रियं चातिलालयेत् ताडयेन् न च ।
विद्याभ्यासे गृह्यकृत्ये तावुभौ योजयेत् क्रमात् ॥
उपेक्षेत समर्थः सन् धर्मस्य परिपन्थिनः ।
स एव सर्वनाशाय हेतुभूतो न संशयः ॥
उपेक्ष्यपक्षे भूपानां मानः स्वार्थस्य सिद्धये ।
स तु प्राणानुपेक्ष्यापि ग्राह्यपक्षे मनस्विनाम् ॥
उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः ।
सिंहस् तु शरमपेक्ष्य शरक्षेप्तारमीक्षते ॥
उपेतः कोशदण्डाभ्यां सामात्यः सह मन्त्रिभिः ।
दुर्गस्थश्चिन्तयेत् साधु मण्डलं मण्डलाधिपः ॥
उपेत्य तां दृढपरिरम्भलालसश् चिरादभूः प्रमुषितचारुचन्दनः ।
धृताञ्जनः सपदि तदक्षिचुम्बनाद् इहैव ते प्रिय विदिता कृतार्थता ॥
उपैति क्षाराब्धिं सहति बहुवातव्यतिकरं पुरो नानाभङ्गाननुभवति पश्यैष जलदः ।
कथंचिल्लब्धानि प्रवितरति तोयानि जगते गुणं वा दोषं वा गणयति न दानव्यसनिता ॥
उपैति सस्यं परिणामरम्यतां नदीरनौद्धत्यमपङ्कतां मही ।
नवैर्गुणैः संप्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥
उपोढरागाप्यबला मदेन सा मदेनसा मन्युरसेन योजिता ।
न योजितात्मानमनङ्गतापितां गतापि तापाय ममाद्य नेयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0