महासुभाषितसंग्रह · श्लोक 7032-7051
उपकारे कृतज्ञत्वम् अपकारे कृतघ्नता ।
विषयस्य गुणावेतौ कर्तुः स्यातां विपर्ययौ ॥
उपकारेण दूयन्ते न सहन्तेऽनुकम्पिताम् ।
आपत्स्वपि दुराराध्या नित्यदुःखा मनस्विनः ॥
उपकारेण नीचानाम् अपकारो हि जायते ।
पयःपानं भुजंगानां केवलं विषवर्धनम् ॥
उपकारेण वीरस्तु प्रतिकारेण युज्यते ।
अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः ॥
उपकार्योपकारित्वं दूरे चेत् सा हि मित्रता ।
पुष्पवन्तौ किमासन्नौ पश्य कैरवपद्मयोः ॥
उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् ।
विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम् ॥
उपकृतमनेन सुतराम् इत्यसतामस्ति न क्वचिदपेक्षा ।
होतुः स्वहस्तमाश्रित उद्वहतोऽग्निर् दहत्येव ॥
उपकृतवताप्यनार्ये नाश्वसितव्यं कृतिप्रियोऽस्मीति ।
पयसापि सिक्तमूलो भवति हि मधुरो न पिचुमन्दः ॥
उपकृतवता श्रीरत्नाभ्यां हरेः शशिलेखया मनसिजरिपोः पीयूषेणाप्यशेषदिवौकसाम् ।
कथमितरथा तेन स्थेयं यशोभरमन्थरं यदि न मथनायासं धीरः सहेत पयोनिधिः ॥
उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।
अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥
उपकृतिसाहसिकतया क्षतिमपि गणयन्ति नो गुणिनः ।
जनयन्ति हि प्रकाशं दीपशिखाः स्वा गदाहेन ॥
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारश कया ।
इयमेव हि सत्त्वशालिनां महतां कापि कठोरचित्तता ॥
उपक्रमं वाञ्छितमाशु कुर्याद् दूतोपयानात् क्रियमाणसंधिः ।
स चेद् विसंधिः स तु तत्र चैकः कृतो भवत्यात्मसमुच्छ्रयश्च ॥
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमन गलघुम् ॥
उपगूहति दवदहने त्रिभुवनधन्यामरण्यानीम् ।
मूर्ता इवान्धकाराः प्रतिदिशमपयान्ति कासरावलयः ॥
उपचरिताप्यतिमात्रं पण्यवधूः क्षीणसंपदः पुंसः ।
पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥
उपचरिता हरिणदृशः सज्जनगोष्ठीषु मिश्रिता वाचः ।
चरितं क्लमनमदवनं न विधेः कुटिलादपि त्रासः ॥
उपचारः कर्तव्यो यावदनुत्पन्नसौहृदाः पुरुषाः ।
उत्पन्नसौहृदानाम् उपचारः कैतवं भवति ॥
उपचारविधिज्ञोऽपि निर्धनः किं करिष्यति ।
निर कुश इवारूढो मत्तद्विरदमूर्धनि ॥
उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।
अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद् यामि ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0