भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7012-7031

7012

उपकारः परो धर्मः परोऽर्थः कर्मनैपुणम् ।
पात्रे दानं परः कामः परो मोक्षो वितृष्णता ॥

7013

उपकारकमायतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासममस्ति साधनम् ॥

7014

उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेत् ।
पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥

7015

उपकारपरः प्रवरः प्रत्युपकारं करोति मध्यस्थः ।
नीचस्तदपि न कुरुते उपकार्वशाद् भवति शत्रुः सः ॥

7016

उपकारपरः स्वभावत सततं सर्वजनस्य सज्जनः ।
असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥

7017

उपकारप्रधानः स्याद् अपकारपरेऽप्यरौ ।
संपद्विपत्स्वेकमना हेतावीर्ष्येत् फले न तु ॥

7018

उपकारफलं मित्रम् अपकारोऽरिलक्षणम् ।
... ... ... ... ... ... ... ... ... ... ॥

7019

उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥

7020

उपकारशतेनापि गृह्यते केन दुर्जनः ।
साधुः संमानमात्रेण भवत्येवात्मविक्रयी ॥

7021

उपकारशतेनापि दानैश्चापि सुविस्तरैः ।
लालनात् प्रीतिपूर्वाच्च न ग्राह्यो भगिनीसुतः ॥

7022

उपकारश्चापकारो यस्य व्रजति विस्मृतिम् ।
पाषाणहृदयस्यास्य जीवतीत्यभिधा मुधा ॥

7023

उपकाराच्च लोकानां निमित्तान्मृगपक्षिणाम् ।
भयाल्लोभाच्च मूर्खाणां मैत्री स्याद् दर्शनात् सताम् ॥

7024

उपकारादृतेऽप्याशु मित्रं श्रेयसि तिष्ठति ।
मित्रवान् साधयत्यर्थान् दुःसाध्यानप्यनादरात् ॥

7025

उपकाराय न जातः सपदि सुजातः क्व जातवैरेऽपि ।
ग्रासयति ग्रस्तोऽपि द्रोहिणममृतानि रोहिणीरमणः ॥

7026

उपकाराय या पुंसां न परस्य न चात्मनः ।
पत्रसंचयसंभारैः किं तया भारविद्यया ॥

7027

उपकारिणमपि पूज्यं हन्ति महान्तं खलोऽत्रपोऽवसरे ।
धृष्टद्युम्नो मध्ये- वीरं हतवान् गुरुं शान्तम् ॥

7028

उपकारिणि विक्षीणे शनैः केदारवारिणि ।
सानुक्रोशतया शालिर् अभूत् पाण्डुरवा मुखः ॥

7029

उपकारिणि विश्रब्धे शुद्धमतौ यः समाचरति पापम् ।
तं जनमसत्यसंधं भगवति वसुधे कथं वहसि ॥

7030

उपकारिणि वीतमत्सरे वा सदयत्वं यदि तत्र कोऽतिरेकः ।
अहिते सहसापराद्धलब्धे सघृणं यस्य मनः सतां स धुर्यः ॥

7031

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc