भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 7052-7071

7052

उपचितावयवा शुचिभिः कणैर् अलिकदम्बकयोगमुपेयुषी ।
सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥

7053

उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद् बलवानपि ।
तपसि मन्दगभस्तिरभीषुमान् नहि महाहिमहानिकरोऽभवत् ॥

7054

उपच्छन्द्यापि दातव्यं बलिने शान्तिमिच्छता ।
समूलमेव गान्धारिर् अप्रयच्छन् गतः क्षयम् ॥

7055

उपजप्यानुपजपेद् बुध्येतैव च तत्कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥

7056

उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥

7057

उपजापश्चिरारोधोऽवस्कन्दस् तीव्रपौरुषम् ।
दुर्गस्य ल घनोपायाश् चत्वारः कथिता इमे ॥

7058

उपजापसहान् विल घयन् स विधाता नृपतीन् महोद्धतः ।
सहते न जनोऽप्यधःक्रियां किमु लोकाधिकधाम राजकम् ॥

7059

उपजापहृतस्वामिस्नेहसीम्नि पराश्रयम् ।
मौले वाञ्छति मेदिन्याः पत्युः पातो न संशयः ॥

7060

उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥

7061

उपजीव्या हता कन्या स्वार्थे पाकक्रिया हता ।
शूद्रभिक्षाहतो यागः कृपणस्य हतं धनं ॥

7062

उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥

7063

उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम् ।
उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव ॥

7064

उपदेशं विदुः शुद्धं सन्तस् तमुपदेशिनः ।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥

7065

उपदेशप्रदात् णां नराणां हितमिच्छताम् ।
परस्मिन्निहलोके च व्यसनं नोपपद्यते ॥

7066

उपदेशो न दातव्यो यादृशे तादृशे नरे ।
पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥

7067

उपदेशो हि मूर्खाणां क्रोधायैव शमाय न ।
पयःपानं भुज गानां विषायैवामृताय न ॥

7068

उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
पयःपानं भुज गानां केवलं विषवर्धनं ॥

7069

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥

7070

उपधाशोधिताः सम्यग् ईहमानाः फलोदयम् ।
तेऽस्य सर्वं परीक्षेरन् सानुरागाः कृताकृतम् ॥

7071

उपेत्य धीयते यस्माद् उपधेति ततः स्मृता ।
उपाय उपधा ज्ञेया तयामात्यान् परीक्षयेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc