महासुभाषितसंग्रह · श्लोक 6992-7011
उन्मुच्य स्वजनानुपेक्ष्य तृणवत् प्राणानपि प्रेयसस् तीर्त्वा दुस्तरमर्णवं च वणिजः प्राप्ताः पटीराशया ।
श्वासैस्ते विनिवर्तिताः प्रतिभयैः स्वस्थो भवातःपरं त्वं वा केवलम गम गमुरग व्यालिम्प गन्धद्रवैः ॥
उन्मुद्रीकृतविश्वविस्मयभरैस्तत्तन्महार्घैर्गुणैर् दुर्गाधे हृदयाम्बुधौ तव भवेन् नः सूक्तिग गा यदि ।
विश्वश्वित्रमत गिनीघनरसस्यन्दिन्यमन्दध्वनिर् ग गासागरसंगमः पुनरिवापूर्वः समुन्मीलति ॥
उन्मूलितालानविलाभनाभिश् छिन्नस्खलच्छृ खलरोमराजिः ।
मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥
उन्मूल्य सितकेशांस्तु मूले मुले च तत्क्षिपेत् ।
ततः केशाः प्रजायन्ते कृष्णाः कौतुककारिणः ।
युक्त्या पूर्वोक्तया युञ्ज्यान् मेषशृ गीपयः सुधीः ॥
उन्मूल्यालानभूमीरुहमतितरसोत्खण्डिताण्ड् ऊवितानान्य्- आकर्षन्नेष पादैर्मदजलकलुषः क्षिप्तनक्षत्रमालः ।
शुण्डादण्डाभिघातैर्नभसि विदलयन् पुष्करावर्तकादीन् धावत्याधूतमूर्धा हरिमभिरभसाद् देवपुत्रः करीन्द्रः ॥
उन्मृष्टं कुचसीम्नि पत्रमकरं दृष्ट्वा हठालि गनात् कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे ।
कोपेणारुणितोऽश्रुपातदलितः प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु नः क्षेमं कटाक्षा कुरः ॥
उन्मृष्टपत्रा लुलितालकान्ताः कण्ठेषु लग्ना जघनं स्पृशन्तः ।
कुचस्थलीष्वाहतिमादधाना गता वधूनां प्रियतां जलौघाः ॥
उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः ।
नीतः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल् लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥
उपकरोत्यपकृतो ह्युत्तमोऽप्यन्यथाधमः ।
मध्यमः साम्यमन्विच्छेद् अपरः स्वार्थतत्परः ॥
उपकर्ताधिकाराढ्यः स्वापराधं न मन्यते ।
उपकारं ध्वजीकृत्य सर्वमेव विलुम्पति ॥
उपकर्तुं प्रियं वक्तुं कर्तुं स्नेहमनुत्तमम् ।
सज्जनानां स्वभावोऽयं केनेन्दुः शिशिरीकृतः ॥
उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् ।
प्रायः कूपस्तृषां हन्ति सततं न तु वारिधिः ॥
उपकर्तुः कृतघ्नस्याप्य् उभयोरियती भिदा ।
सद्यो हि विस्मरत्याद्यः कृतं पश्चात् तु पश्चिमः ॥
उपकर्तुः स्थिरं द्रव्यं यत्नस् तत्कालसंभवः ।
किमस्ति तालवृन्तस्य मन्दमारुतसंग्रहः ॥
उपकर्तुमनुपकर्तुः प्रियाणि कर्तुं कृतान्यनुस्मर्तुम् ।
विनिपतितांश्चोद्धर्तुं कुलान्वितानामुचितमेतत् ॥
उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुम् ।
अभिसंधातुं च गुणैः शतेषु केचिद् विजानन्ति ॥
उपकर्त्रारिणा संधिर् न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षणमेतयोः ॥
उपकारं सुहृद्वर्गे योऽपकारं च शत्रुषु ।
नृमेघो वर्षति प्राज्ञस् तस्येच्छन्ति सदोन्नतिम् ॥
उपकारं स्मरन्तस्तु कृतज्ञत्ववशंवदाः ।
पदवीमुपकर्त् णां यान्ति निश्चेतना अपि ॥
निर्वाणमनु निर्वाति तपनं तपनोपलः ।
इन्दुमिन्दुमणिः किं च शुष्यन्तमनु शुष्यति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0