महासुभाषितसंग्रह · श्लोक 6972-6991
उन्मीलद्यौवनासि प्रियसखि विषमाः श्रेणयो नागराणां तस्मात् कोऽपि त्वयाद्यप्रभृति न सहसा संमुखं वीक्षणीयः ।
यावच् चन्द्रार्कमेकः पतिरतिशयितश्रद्धया सेवितव्यः कर्तव्या रूपरक्षा वचसि न हृदयं देयमस्मद्विधानाम् ॥
उन्मीलद्रसबिन्दुगन्धकुसुमावल्ल्यो वसन्तोदये कान्ताः कोमलपल्लवाः कति कति क्रीडावने सन्ति न ।
सौभाग्यैकनिधे रसाल तदपि श्रीमञ्जरीशालिनस् त्वत्तोऽन्यत्र च कुत्रचिन् मधुकरश्रेणी न विश्राम्यति ॥
उन्मीलद्वदनेन्दुकान्तिविसरैर्दूरं समुत्सारितं भग्नं पीनकुचस्थलस्य च रुचा हस्तप्रभाभिर्हतम् ।
एतस्याः कलविंककण्ठकदलीकल्पं मिलत्कौतुकाद् अप्राप्ताभिमुखं रुषेव सहसा केशेषु लग्नं तमः ॥
उन्मीलन्ति कियन्ति वा न कुसुमान्युष्णद्युतेरुद्गमे तत्त्वेतावति बन्धुरित्यतिसखीत्यादित्यकान्तेति च ।
कीर्तिं दत्तवतां त्रिलोकविदितामेवं कवीनामृणं किं कृत्वेयमपाकरोतु जनुषां कोट्यापि नालीकिनी ॥
उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयक्वाणैः समुत्त्रासय ।
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठीषु संकेतिक- व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥
उन्मीलन्ति निशानिशाचरवधूत्प्रोच्चाटनामान्त्रिकाः सायं सालससुप्तप कजवनप्रोद्बोधवैतालिकाः ।
फुल्लत्प कजकोशगर्भकुहरप्रोद्भूतभृ गावली- झ कारप्रणवोपदेशगुरवस् तीव्रद्युतेरंशवः ॥
उन्मीलन्ति मृणालकोमलरुचो राजीवसंवर्तिका- संवर्तव्रतवृत्तयः कतिपये पीयूषभानोः कराः ।
अप्युस्रैर्धवलीभवत्सु गिरिषु क्षुब्धोऽयमुन्मज्जता विश्वेनेव तमोमयो निधिरपामह्नाय फेनायते ॥
उन्मीलन्नयनान्तकान्तिलहरीनिष्पीतयोः केवलाद् आमोदादवधारणीयवपुषोः कान्तासखेन क्षणम् ।
यत्कर्णोत्पलयोः स्थितेन भवता किंचित् समुद्गुञ्जितं भ्रातस्तिष्ठति कुत्र तत् कथय मे कान्तं प्रियाया मुखम् ॥
उन्मीलन्मणिरश्मिजालजटिलच्छायं रणत्क कणं बिभ्राणस्तव देव वैरिकदनक्रीडाकठोरः करः ।
त्यक्त्वा संयति जीवितानि रिपवो ये स्वर्गमार्गे गतास् तानाक्रष्टुमिवाविवेश रभसाच् चण्डद्युतेर्मण्डलम् ॥
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूता कुर- क्रीडत्कोकिलकाकलीकलरवैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥
उन्मीलन्मुकुलकरालकुन्दकोश- प्रश्च्योतद्घनमकरन्दगन्धबन्धो ।
तामीषत्प्रचलविलोचनां नता गीम् आलिन् गन् पवन मम स्पृशा गम गम् ॥
उन्मीलयन्ति कुसुमानि मनोरमाणि के नाम नात्र तरवः समयोचितानि ।
कस्येदृशं कथय दोहदमस्ति तस्य यादृक्विनिर्मितमशोकमहीरुहस्य ॥
उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूर- क्रोडक्रीडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचि ः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमाली- व्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्याश्चतुरश्रशोभि वपुर्विभक्तं नवयौवनेन ॥
उन्मील्याक्षि सखीर्न पश्यसि न चाप्युक्ता ददास्युत्तरं नो वेत्सीदृशमत्र नेदृशमिमां शून्यामवस्थां गता ।
तल्पादृश्यकर कपञ्जरमिदं जीवेन लिप्तं मना मुञ्चन्ती किमु कर्तुमिच्छसि कुरु प्रेमान्यदेशागते ॥
उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि ।
धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥
उन्मुक्तकञ्चुकतयेयमुदारकान्तिः शस्त्रीव शम्बररिपोरपनीतकोशा ।
रक्तावकुण्ठनपटीरचितापिधाना संध्याम्बुवाहकलितेव शशा करेखा ॥
उन्मुक्तक्रमहारिमेरुशिखरात् क्रामन्तमन्यो धरः कोऽत्र त्वां शरभीकिशोरपरिषद्धौरेय धर्तुं क्षमः ।
तस्माद् दुर्गमशृ गल घनकलादुर्लालितात्मन् व्रज त्वद्वासाय स एव कीर्णकनकज्योत्स्नो गिरीणां पतिः ॥
उन्मुक्तमानकलहा रमध्वं दयितान्विताः ।
इतीव मधुरालापाः कोकिला जगदुर् जनान् ॥
उन्मुक्ताभिर्दिवसमधुना सर्वतस्ताभिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्वमेतत् ।
पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा गीयं रमयति तमःस्तोमलीला धरित्री ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0