भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6890-6910

6890

उद्यमेनैव कार्याणि सिध्यन्ति न मनोरथैः ।
नहि सुप्तस्य सिंहस्य विशन्ति वदने मृगाः ॥

6891

उद्ययौ दीर्घिकागर्भान् मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यश कासंकुचितं यथा ॥

6892

उद्यल्लावण्यलक्ष्मीवलयितवपुषां स्वर्गवारा गनानाम् आश्लेषे यः प्रमोदः स्फुरति च गरिमा योऽमृते माधुरीणाम् ।
सौरभ्यं कु कुमे यत् पयसि विमलता याप्यहो तत्समस्तं मित्रैकत्रेक्षितुं चेदभिलषसि तदा पश्य कृष्णस्य काव्यम् ॥

6893

उद्यात्येव सुहृत्कुलं प्रतिबलं यात्येव नीचैस्तराम् आयान्त्येव यशःश्रियः प्रतिदिशं यान्त्येव सत्कीर्तयः ।
येनैकेन मुखाग्रपाटिततनूभूतार्द्रकोटिश्रिया सर्वाश्चर्यमयः स एव जयति त्वत्खड्गधारापथः ॥

6894

उद्यानं कौमुदी गीतं कान्ता केलिः सुहृत् कथा ।
कृतिनां सुकृतक्रीतः स्वर्गभोगो भुवि स्थितः ॥

6895

उद्यानं वनभूमयः कुसुमितैरुद्गन्धयः पादपैः शैला निर्झरहासिनो जलधरश्यामा गिरिः कृत्रिमः ।
नद्यः सारसमूर्च्छितोर्मिवलया घर्माभिषेकास्पदं शीताः शीकरसंगमात्सुरभयो मित्रं सरोजानिलाः ॥

6896

उद्यानपाल कलशाम्बुनिषेचनानाम् एतस्य चम्पकतरोरयमेव कालः ।
तस्मिन् निदाघनिहते घनवारिणा वा संवर्धिते तव वृथोभयथोपयोगः ॥

6897

उद्यानमारुतोद्धूताश् चूतचम्पकरेणवः ।
उदश्रयन्ति पान्थानाम् अस्पृशन्तोऽपि लोचने ॥

6898

उद्यानसहकाराणाम् अनुद्भिन्ना न मञ्जरी ।
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः ॥

6899

उद्यानानि न सर्वदा परिभवत्रासादिवाध्यासते भूमौ नोपविशन्ति ये खलु रजःसंपर्कतर्कादिव ।
तेषामप्यतिपूजनीयवपुषां नूनं पिकानामियं धिक् कष्टं परपुष्टतेति किमपि प्राचां फलं कर्मणाम् ॥

6900

उद्यानेषु विचित्रभ्होजनविधिस् तीव्रातितीव्रं तपः कौपीनावरणं सुवस्त्रमभितं भिक्षाटनं मण्डनम् ।
आसन्नं मरणं च म गलसमं सत्यं समुत्पद्यते तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥

6901

उद्याने सहकारकोरकरसप्रत्याशया कोकिलः स्थातुं वाञ्छति चित्तजन्मनृपतेर्मित्रं च मन्त्री यतः ।
किंतु ध्वा क्षविजृम्भितेषु च पिकप्रारब्धगानेषु च क्रेंकारेषु च पञ्चमध्वनिषु च श्रोता न वेत्त्यन्तरम् ॥

6903

उद्योगः क्षयमेति हन्त सहसा जाड्यं समुज्जृम्भते मित्रस्यापि च दर्शनं भवति नो किं वान्यदाचक्ष्महे ।
यल्लोकस्पृहणीयतां गतमभूत् तज्जीवनं व्यर्थतां प्राप्तं येन दुनोति तन् मम मनो दुर्दैववद् दुर्दिनम् ॥

6904

उद्योगः शत्रुवन् मित्रम् आलस्यं मित्रवद् विषम् ।
विषवच् चामृतं विद्या सुधावद् विषम गना ॥

6905

उद्योगः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः ।
उत्साहः षड्विधो यस्य तस्य देवोऽपि श कते ॥

6906

उद्योगमेधाधृतिसत्त्वसत्य- त्यागानुरागस्थितिगौरवाणि ।
जितेन्द्रियत्वं प्रसहिष्णुता ह्रीः प्रागल्भ्यमित्यात्मगुणप्रवेकः ॥

6907

उद्योगादनिवृत्तस्य सुसहायस्य धीमतः ।
छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥
उद्योगानुसारी लक्ष्मीः कीर्तिस् त्यागानुसारिणी ।
अभ्यासानुसारी विद्या बुद्धिः कर्मानुसारिणी ॥

6908

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीर् दैवेन देयमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥

6909

उद्योगिनः करालम्बं करोति कमलालया ।
अनुद्योगिकरालम्बं करोति कमलाग्रजा ॥

6910

उद्योगेन कृते कार्ये सिद्धिर्यस्य न विद्यते ।
दैवं तस्य प्रमाणं हि कर्तव्यं पौरुषं सदा ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc