भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6870-6889

6870

उद्यद्विवेकतपनप्रफुल्ले हृदयाम्बुज ।
विशते भगवद्भक्तिर् अरविन्द इवेन्दिरा ॥

6871

उद्यन्तु नाम सुबहूनि महामहांसि चन्द्रोऽप्यलं भुवनमण्डलमण्डनाय ।
सूर्यादृते न तदुदेति न चास्तमेति येनोदितेन दिनमस्तमितेन रात्रिः ॥

6872

उद्यन्तु शतमादित्या उद्यन्तु शतमिन्दवः ।
न विना विदुषां वाक्यैर् नश्यत्याभ्यन्तरं तमः ॥

6873

उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।
आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥

6874

उद्यन्नित्यं त्वरितस् तमोऽपगमयति करैः समाकृष्य ।
महितस् तदसि स्थाने मित्र पुमांस्त्वं परे क्लीबाः ॥

6875

उद्यन्नेव जगद्विसृत्वरघनध्वान्तौघमध्वंसयः पादन्यासमशेषभूधरशिरः पीठीतटेषु न्यधाः ।
धिक्कृत्येन्दुमपि श्रियं व्यतनुथाः पद्माप्तपद्मोत्करे जीवेद् वासरमेव वा त्वमिव यस्तज्जीवनं जीवनम् ॥

6876

उद्यन्महानिलवशोत्थविचित्रवीचि- विक्षिप्तनक्रमकरादिनितान्तभीतिम् ।
अम्भोधिमध्यमुपयाति विवृद्धवेलं लोभाकुलो मरणदोषममन्यमानः ॥

6877

उद्यन्महीपालमरीचिमाली- शिलीमुखश्रेणिकरावलीभिः ।
उदारभूदारघनान्धकार- संभारमुच्छिन्नतरं चकार ॥

6878

उद्यमं कुरुते जन्तुर् दैवं सर्वत्र कारणम् ।
समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥

6879

उद्यमं कुर्वतां पुंसां फलं भाग्यानुसारतः ।
समुद्रमन्थनाल्लेभे हरिर्लक्ष्मीं हरो विषम् ॥

6880

उद्यमं कुर्वतां पुंसां फलं मार्जारकर्मवत् ।
जन्मप्रभृति गौर्नास्ति पयः पिबति नित्यशः ॥

6881

उद्यमः कलहः कण्डूर् द्यूतमद्यपरस्त्रियः ।
निद्रा मैथुनमालस्यं सेवनात् तु विवर्धते ॥

6882

उद्यमः साहसं धैर्यं बलं बुधिः पराक्रमः ।
षडेते यस्य तिष्ठन्ति तस्य देवोऽपि श कितः ॥

6883

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः ।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति ॥

6884

उद्यमाख्यानमपरं प्रकीर्णाख्यानकं तथा ।
समस्याख्यानमपरं प्रहेल्यादिप्रशंसनम् ॥

6885

उद्यमी लभते सिद्धिम् अयोग्योऽपि सुनिश्चितम् ।
अनूरुर्गगनस्यान्तं प्रयात्येव दिने दिने ॥
उद्यमी सिद्धिमाप्नोति सहाय्यविकलोऽपि चेत् ।
एकचक्ररथोऽनूरुसूतोऽर्को व्योम गाहते ॥

6886

उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
कातरा इति जल्पन्ति यद् भाव्यं तद् भविष्यति ॥

6887

उद्यमेन विना राजन् न सिध्यन्ति मनोरथाः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

6888

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

6889

उद्यमे नास्ति दारिद्र्यं जप्यतो नास्ति पातकम् ।
मौनेन कलहो नास्ति नास्ति जागरतो भयम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc