महासुभाषितसंग्रह · श्लोक 6911-6931
उद्योगेन विना नैव कार्यं किमपि सिध्यति ।
नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
उद्वर्तयन्त्या हृदये निपत्य नृपस्य दृष्टिर्न्यवृतद् द्रुतैव ।
वियोगिवैरात् कुचयोर्नखा कैर् अर्धेन्दुलीलैर्गलहस्तितेव ॥
उद्वर्तितमपि बहुधा- नुलिप्तमपि चन्दनागुरुरसाद्यैः ।
भजति तथापि शरीरं दौर्गन्ध्यं तत्र को हेतुः ॥
उद्वासयितुं वेश्मनि सरघाः कुर्वन्ति यन्मधुच्छत्त्रम् ।
दुर्गा करोति नीडं कुर्युर् वल्मीकमुपदीकाः ॥
उद्वाहारोपितार्द्रक्षतनिजपदयोः संगतामिन्दुमौला- वानम्रे यां सुधांशोर्व्यधित किल कलां तूर्णमेवान्नपूर्णाम् ।
सक्तानामक्षतानाममृतदृगनलोपाधितः पक्वभावान् नानार्थैरन्नपूर्णा प्रणतजनततेः पूर्णतामातनोतु ॥
उद्विजन्ते यथा सर्पान् नरादनृतवादिनः ।
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥
उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर् वक्षोजद्वयमभिषिक्तमन्यनार्याः ।
अम्भोभिर्मुहुरसिचद्वधूरमर्षाद् आत्मीयं पृथुतरनेत्रयुग्ममुक्तैः ॥
उद्वृत्तदैत्यपृतनापतिकण्ठपीठ- च्छेदोच्छलद्बहलशोणितशोणधारम् ।
चक्रं क्रियादभिमतानि हरेरुदार- दिग्दाहदारुणनभः श्रियमुद्वहद् वः ॥
उद्वृत्तस्तनभार एष तरले नेत्रे चले भ्रूलते रागाधिक्यतमोष्ठपल्लवदलं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरप क्तिकेव लिखिता पुष्पायुधेन स्वयं मध्यस्था हि करोति तापमधिकं रोमावली केन सा ॥
उद्वृत्तस्तनभारभ गुरमुरो नोत्कञ्चुकं कारिता संयोगस्तु यथा तथेति सकला नीवी न विस्रंसिता ।
भूयः संगम आवयोः क्व नु भवेदेवं च नोल्लापिता संभ्रान्तत्वरितेन भीतसुरतेनैवं वयं वञ्चिताः ॥
उद्वेगं जनयन्ति संचितवृषव्याप्ताजिरोपान्तकाः प्रातः शीर्णकुटीरपुञ्जतलताशिम्बीतुषारावि लाः ।
ग्रामा गोमयधूमसंततिपरिक्लिष्टारुणश्मश्रुभिर् वृद्धैः कुड्यनिवातलीननिभृतैरभ्यर्थ्यमानातपाः ॥
उद्वेगस्य निवारणाय दुरितच्छेदाय पुण्याप्तये पानाय श्रवणामृतस्य धृतये कस्मैचिदार्तिच्छिदे ।
उच्छ्वासं पुरुषोत्तमाच्युत हरे गोविन्द नारायण श्रीवत्सा क मुकुन्द कृष्ण कमलाकान्तेति वाच्यं मुहुः ॥
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् ।
त्रयाणामपि लोकानाम् ईश्वरोऽपि न तिष्ठति ॥
उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
तस्माद् यथार्हतो दण्डं नयेत् पक्षमनाश्रितः ॥
उद्वेजयति तीक्ष्णेन मृदुना परिभूयते ।
दण्डेन नृपतिस् तस्माद् युक्तदण्डः प्रशस्यते ॥
उद्वेजयति दरिद्रं परमुद्राया झणत्कारः ।
गृहपतिरतिमिलितायाः क कणरावो यथा जारम् ॥
उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः ।
भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयम् ॥
उद्वेजयति भूतानि यस्य राज्ञः कुशासनम् ।
सिंहासनवियुक्तस्य तस्य क्षिप्रं कुशासनम् ॥
उद्वेजयत्य गुलिपार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥
उद्वेष्ट्य स्वयमेव लेखमुदितप्रस्वेदकम्पा गुलिस् तस्मिन् सेकविलुप्तशेषशिथिलं दृष्ट्वा लिपिप्रक्रमम् ।
एतत् किन्नु हतास्मि संप्रति दशा तस्यैवमासीदयं बाष्पो हन्त करस्य कम्पितमिदं हन्तेति सा रोदिति ॥
उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।
आरूढप्रतिवनिताकटाक्षभारः साधीयो गुरुरभवद् भुजस्तरुण्याः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0