भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6609-6628

6609

उत्पलस्य हि रक्तिमा साधोः परोपकारिता ।
असाधोः करुणाभावः स्वभावास्त्रिविधा यथा ॥

6610

उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।
उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥

6611

उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते ।
शुक्लापान्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥

6612

उत्पातकं तदिह देव विचारणीयं नारायणो यदि पतेदथवा सुभद्रा ।
कादम्बरीमदविघूर्णितलोचनस्य युक्तं हि ला गलधृतः पतनं पृथिव्याम् ॥

6613

उत्पातकेतुरिव मन्मथनायकस्य वज्रप्रहार इव केलिलतावनस्य ।
संहारकाल इव पान्थवधूजनस्य ग्रीष्मस्य भाति दिवसः सखि दूरिताशः ॥

6614

उत्पातजं छिद्रमसौ विवस्वान् व्यादाय वक्त्राकृति लोकभीष्यम् ।
अत्तुं जनान् धूसररश्मिराशिः सिंहो यथा कीर्णसटोऽभ्युदेति ॥

6615

उत्पाताय च काव्ये दुरुपश्रुतिरभिनये च नाट्यानाम् ।
स्वस्थानामपि यद्वद् ध्वस्ता धारा धरित्रीति ॥

6616

उत्पादकब्रह्मदात्रोर् गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥

6617

उत्पादनमपत्यस्य जातस्य परिपालनम् ।
प्रत्यर्थं लोकयात्रायाः प्रत्यक्षं स्त्रीनिबन्धनम् ॥

6618

उत्पादयति लोकस्य प्रीतिं मलयमारुतः ।
ननु दाक्षिण्यसंपन्नः सर्वस्य भवति प्रियः ॥

6619

उत्पादयत्यलमिदं मनसो विषादं सीदत्सरोरुहनिभं वदनं त्वदीयम् ।
ज्ञात्वा निदानमहमत्र समानदुःखा प्राणैरपि प्रियतमे भवितुं समीहे ॥

6620

उत्पादयन्तो सुरतस्य विघ्नं परस्परालापसुखं हरन्ती ।
संरागिणः कामिजनस्य गाढम् अक्ष्णोर्ललम्बे सहसैव निद्रा ॥

6621

उत्पादिता स्वयमियं यदि तत् तनूजा तातेन वा यदि तदा भगिनी खलु श्रीः ।
यद्यन्यसंगमवती च तदा परस्त्री तत्त्यागबद्धमनसः सुधियो भवन्ति ॥

6622

उत्पाद्य कृत्रिमान् दोषान् धनी सर्वत्र बाध्यते ।
कृतदोषसहस्रोऽपि निर्धनः परमेश्वरः ॥

6623

उत्पाद्य पुत्राननृणांश्च कृत्वा वृत्तिं च तेभ्योऽनुविधाय कांचित् ।
स्थाने कुमारीः प्रतिपाद्य सर्वा अरण्यसंस्थो मुनिवद् बुभूषेत् ॥

6624

उत्पाद्य यत् स्वयमपि प्रबलानुराग- भाजस् तथानुसरतोऽपि दिवाकरस्य ।
छाया प्रसर्पति सुदूरमनेन मन्ये क्लृप्तं तया सदृशमेव कुलीनतायाः ॥

6625

उत्पुच्छः प्रमदोच्छ्वसद् वपुरधोविस्रंसिपक्षद्वयः स्वैरोत्फालगतिक्रमेण परितो भ्रान्त्वा सलीलं मुहुः ।
उत्कण्ठालसकूजितः कलरुतां भूयो रिरंसारस- न्यग्भूतां चटकः प्रियामभिसरत्युद्वेपमानः क्षणम् ॥

6626

उत्पुच्छानतधूतपक्षततयो झात्कारिणो विभ्रमैर् उद्वाच्यास्ततचञ्चवो लयवशादुत्क्षिप्तपादा मुहुः ।
पश्यन्तो निजकण्ठकाण्डमलिनां कादम्बिनीमुन्नत- ग्रीवाभ्यर्णमिलत्कलापविटपा नृत्यन्ति केकाभृतः ॥

6627

उत्प्रवालान्यरण्यानि वाप्यः संफुल्लप कजाः ।
चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतम् ॥

6628

उत्प्लुत्य दूरं परिधूय पक्षा- वधो निरीक्ष्य क्षणबद्धलक्ष्यः ।
मध्येजलं बुड्डति दत्तझम्पः समत्स्यमुत्सर्पति मत्स्यर कः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc