महासुभाषितसंग्रह · श्लोक 6629-6648
उत्प्लुत्य यः शिखरिणं मदकुम्भिकुम्भम् उद्भिद्य सानुशतमायतमुल्लल घे ।
पञ्चाननो नियतया जरयाभिभूतः सोऽयं करौ लिहति बृंहितलोहिताक्षः ॥
उत्प्लुत्या गृहकोणतः प्रचलिताः स्तोकाग्रज घं ततो वक्रस्वैरपदक्रमैरुपगताः किंचिच् चलन्तो गले ।
भेकाः पूतिनिपातिनो मिचिमिचीत्युन्मीलितार्धेक्षणा नक्राकारविदारिताननपुटैर्निर्मक्षिकं कुर्वते ॥
उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रेऽन्यस्य क्रोधदष्टोष्ठदन्ते ।
सैन्यैः कण्ठच्छेदलीने कबन्धाद् भूयो बिभ्ये वल्गतः सासिपाणेः ॥
उत्फालं हेलयैव द्रुतमभिपततः पूर्वपृथ्वीधराग्राद् उच्चैरर्चिश्चपेटाहतिभिरिव हरेर्ध्वान्तदन्ती विदीर्णः ।
रक्ताः कुम्भैर्विमुक्ता इव सकलदृशां विस्मयं संदधानाः संध्याशोणत्विषस्ताः सपदि निपतितास्तारकास्ताः समस्ताः ॥
उत्फुल्लकमलकेसर- परागगौरद्युते मम हि गौरि ।
अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥
उत्फुल्लगल्लपरिफुल्लमुखारविन्द- सौगन्ध्यलुब्धमधुपाकुलया रतांते ।
संभुग्नपीनकुचचूचुकयातिगाढ- मालि गितो गिरिजया गिरिशः पुनातु ॥
उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुखैः सुखम् ।
जानाति हि पुनः सम्यक् कविरेव कवेः श्रमम् ॥
उत्फुल्लतापिच्छमनोरमश्रीर् मातुः स्तनन्यस्तमुखारविन्दः ।
संचालयन् पादसरोरुहाग्रं कृष्णः कदा यास्यति दृक्पथं मे ॥
उत्फुल्लप कजनिषक्तलसद्द्विरेफः किंचिद्विनिद्रकुमुदोत्करसंभृतश्रीः ।
आमूलनद्धविविधाद्भुतमाल्यमालश् चित्रं न कस्य तनुते ललितस्तमालः ॥
उत्फुल्लप कजवनं ददर्श विमलं सरः ।
स्फाटिकं वनदेवीनाम् इव विभ्रमदर्पणम् ॥
उत्फुल्लपद्मवदनां दलत्कुवलयेक्षणाम् ।
बन्धूककमनीयौष्ठां मन्दारस्तबकस्तनीम् ॥
शिरीषसुकुमारा गीं पञ्चपुष्पमयीमिव ।
एकमेव जगज्जैत्रीं स्मरेण विहितामिषुम् ॥
उत्फुल्लमानसरसीरुहचारुमध्य- निर्यन्मधुव्रतभरद्युतिहारिणीभिः ।
राधाविलोचनकटाक्षपरम्पराभिर् दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥
उत्फुल्लरम्य सहकार रसालबन्धो कूजत्पिकावलिनिवास तथा विधेहि ।
गुञ्जद्भ्रमद्भ्रमरकस्त्वयि बद्धतृष्णो नान्यान् प्रयाति पिचुमन्दकरीरवृक्षान् ॥
उत्फुल्लस्थलनलिनीवनादमुष्माद् उद्धूतः सरसिजसंभवह् परागः ।
वात्याभिर्वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥
उत्फुल्ला नवमालिका मदयति घ्राणेन्द्रियाह्लादिनी जातं धूसरमेव किंशुकतरोराश्यामलं जालकम् ।
आचिन्वन्ति कदम्बकानि मधुनः पाण्डूनि मत्तालयः स्त्रीणां पीनघनस्तनेषु कणवान् स्वेदः करोत्यास्पदम् ॥
उत्फुल्लामलकोमलोत्पलदलश्यामाय रामामनः- कामाय प्रथमाननिर्मलगुणग्रामाय रामात्मने ।
योगारूढमुनीन्द्रमानससरोहंसाय संसारवि- ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नमः ॥
उत्फुल्लार्जुनसर्जवासितवहत्पौरस्त्यझंझामरुत् प्रे खोलस्खलितेन्द्रनीलशकलस्निग्धाम्बुदश्रेणयः ।
धारासिक्तवसुंधरासुरभयः प्राप्तास्त एवाधुना घर्माम्भोविगमागमव्यतिकरश्रीवाहिनो वासराः ॥
उत्फुल्लैर्बकुलैर्लव गमुकुलैः शेफालिकाकुड्मलैर् नीलाम्भोजकुलैस् तथा विचिकिलैः क्रान्तं च कान्तं च यत् ।
तस्मिन् सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा मध्ये मुग्ध कुसुम्भमुम्भसि भवेन् नैवैष युक्तः क्रमः ॥
उत्स गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्रा कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीरार्द्रा नयनसलिलैः सारयित्वा कथंचिद् भूयोभूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥
उत्स गैः सैकतानां शकुनिशतपदन्यासरेखा कितानां जम्बूषण्डानि नद्यो दधति परिणमल्लम्बिलम्बालकानि ।
यत्तोयान्दोलदोलः पुलकयति तनुं तीरकस्तूरिकैण- प्रक्रान्तग्रन्थिपर्णग्रसनपरिमलोत्कन्धरो गन्धवाहः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0