भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6589-6608

6589

उत्पत्तिर्देवयजनाद् ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिर् अस्यां स्नेहं करोति मे ॥

6590

उत्पत्तिर्मरुतां प्रभोर्युगदिने प्रख्याप्य विश्वोत्सवे पूण्याहश्रुतिषु प्रसिद्धिरधिका पूर्णं वयः पौरुषम् ।
काकुत्स्थेन समं सपत्नकलहो दैवज्ञता तादृशी काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥

6591

उत्पत्तिर्मलये समुद्रनिलये पन्था वृतो राक्षसैस् तत्रत्यानपि हन्त चन्दनतरूंश्छिन्दन्ति सांयात्रिकाः ।
वर्तन्ते सविधस्थिताश्च सुखिनः शाखोटमुख्यद्रुमास् तन्मन्ये कृतिनस्तु ते तरुकुले ये नोपयोगक्षमाः ॥

6592

उत्पत्त्युत्पन्नशिष्टा विविधगुणगणा यत्र यान्ति प्रटिष्ठां बाधेन प्राक्तनानां न च नियमविधिर्नापि संख्यार्थदाने ।
ऊहः सर्वत्र यस्य स्फुरति च सकलः सत्य एवार्थवादो मीमांसाभावमञ्चत्यभिनवमधुना मूर्तिरेषा त्वदीया ॥

6593

उत्पत्रेव दृशोऽर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्- फेनोण्डूकविलासमञ्चति विधेर्जीर्णा कपालावली ॥

6594

उत्पथा दुर्नदाः केचिद् बहुभ गभ्रमाविलाः ।
तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ॥

6595

उत्पथेन क्वचिद् याति क्वचिन् मार्गेण गच्छति ।
मुहुरुष्णो मुहुः शीतश् चपलश्चपलायते ॥

6596

उत्पद्यन्ते विपद्यन्ते मद्विधाः क्षुद्रजन्तवः ।
परार्थबद्धकक्ष्याणां तादृशामुद्भवः कुतः ॥

6597

उत्पन्नं सुधियां कुले यदखिलैस्त्यक्तं बुधैर्न क्षणं यन् नो विस्मृतमेकदापि सुजनैर्यद्यन्न युक्तं खलैः ।
दौर्गत्यस्य तथाविधस्य महतस्तस्यापि केनापि नो यद् दानाम्बुसरित्प्रवाहपतितस्याकारि हस्तार्पणम् ॥

6598

उत्पन्नपरितापस्य बुद्धिर्भवति यादृशी ।
तादृशी यदि पूर्वं स्यात् कस्य न स्यान्महोदयः ॥

6599

उत्पन्नपुत्रमात्रस्य पुंसः स्वर्गो भवेद् ध्रृवम् ।
टिट्टिभोत्पादनादेव मन्दपालो दिवं ययौ ॥

6600

उत्पन्नमिह लोके वै जन्मप्रभृति मानवम् ।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥

6601

तयोरेकतरे मार्गे यद्येनमभिसंनयेत् ।
न सुखं प्राप्य संहृष्येत् न दुःखं प्राप्य संज्वरेत् ॥

6602

उत्पन्नस्य रुरोः शृ गं वर्धमानस्य वर्धते ।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥

6603

उत्पन्नाः सरितां ह्रदेषु सुचिरं तत्रैव पुष्टास्ततः प्राप्ताः प्रावृषि सागरं जलचरास्तासां मुखादेव ये ।
द्वित्रैरेव दिनैस्तिमिंगिलकुलस्यासाद्य कूटस्थतां मृष्यन्त्यद्य न ते रहस्यपि कृतां नादेयतासंकथाम् ॥

6604

उत्पन्ना बहवस्तलेषु सरसामम्भोरुहाणां चया ये यामिन्यधिपानुकारिरमणीवक्त्रोपमानं गताः ।
नाभौ भौमरिपोरजायत महापद्मः स कोऽप्येकको यस्त्रैलोक्यसमुद्भवप्रभवितुर्जन्मावनित्वं गतः ॥

6605

उत्पन्नामापदं यस्तु समाधत्ते स बुद्धिमान् ।
वणिजो भार्यया जारः प्रत्यक्षे निह्नुतो यथा ॥

6606

उत्पन्नेषु च कार्येषु मतिर्यस्य न हीयते ।
स निस्तरति दुर्गाणि गोपी जारद्वयं यथा ॥

6607

उत्पन्नो घट चक्रवर्त्यसि पुनर्वह्निं प्रविश्य त्वया प्रातः स्नानपरिश्रमेण पयसां पानेन तप्तं तपः ।
आक्रम्योन्नतजानु यन् मृगदृशां तिष्ठन्नितम्बस्थले कण्ठालम्बितबाहुवल्लिकुचयोः सीमानमास्कन्दसि ॥

6608

उत्पलस्य च पद्मस्य मत्स्यस्य कुमुदस्य च ।
एकजातिप्रसूतानां रूपं गन्धः पृथक् पृथक् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc