महासुभाषितसंग्रह · श्लोक 6487-6506
उत्तमानामपि स्त्रीणां विश्वासो नैव विद्यते ।
राजप्रियाः कैरविण्यो रमन्ते मधुपैः सह ॥
उत्तमानुत्तमानेव गच्छन् हीनांश्च वर्जयन् ।
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥
उत्तमानेव सेवेत प्राप्ते काले तु मध्यमान् ।
अधमांस्तु न सेवेत य इच्छेच् श्रेय आत्मनः ॥
उत्तमाभिजनोपेतान् न नीचैः सह वर्धयेत् ।
कृशोऽपि हि विवेकज्ञो याति संश्रयणीयताम् ॥
उत्तमाश्चात्मना ख्याताः पित्रा ख्याताश्च मध्यमाः ।
अधमा मातुलैः ख्याताः श्वशुरैश्चाधमाधमाः ॥
उत्तमास् ताजिकाः प्रोक्ताः पारसीकाः समुद्रजाः ।
कोक्काणाखतलाणाश्च तथा सौराष्ट्रजा हयाः ॥
उत्तमे तु क्षणं कोपो मध्यमे घटिकाद्वयम् ।
अधमे स्यादहोरात्रं चाण्डाले मरणान्तिकः ॥
उत्तमेनोत्तमं सर्वं मनुष्याणां प्रयत्नतः ।
अदृष्टमीक्ष्य सर्वेषां वक्तव्यं सुविचक्षणैः ॥
उत्तमे विघ्नवत्तास्ति अधमो दुःखभाजनम् ।
तस्मात् सर्वत्र योग्यत्वाच् श्रेष्ठो वै मध्यमः स्मृतः ॥
उत्तमैः सह स गेन को न याति समुन्नतिम् ।
मूर्ध्ना तृणानि धार्यन्ते ग्रथितैः कुसुमैः सह ॥
उत्तमैः सह सांगत्यं पण्डितैः सह संकथाम् ।
अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥
उत्तमैः सह सांगत्यं यत् प्राज्ञैः सत्यवादिभिः ।
बन्धनस्थोऽपि तिष्ठेत न तु राज्ये नराधमैः ॥
उत्तमैः स्वीकृतो नीचो नीच एव न चोत्तमः ।
भैरवाधिष्ठितः श्वा तु कदाचिन् नैव केसरी ॥
उत्तमैरननुज्ञातं कार्यं नेच्छेच् च तैः सह ।
देवैः साकं सुधापानाद् राहोश् छिन्नं शिरो यतः ॥
उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह ।
निनीषुः कुलमुत्कर्षम् अधमानधमांस् त्यजेत् ॥
उत्तमो नातिवक्ता स्याद् अधमो बहुभाषकः ।
न हि स्वर्णे ध्वनिस् तादृग् यादृक् कांस्ये प्रजायते ॥
उत्तमोऽपि कुलजोऽपि मनुष्यः सर्वलोकमहितोऽपि बुधोऽपि ।
दासतां भजति यां भजमानस् तां भजन्ति गणिकां किमु सन्तः ॥
उत्तमोऽप्यधमस्य स्याद् याच्ञानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरम्बुधिम् ॥
उत्तमोऽप्रार्थितो दत्ते मध्यमः प्रार्थितः पुनः ।
याचकैर्याच्यमानोऽपि दत्ते न त्वधमाधमः ॥
उत्तमो मध्यमो नीचोऽधमो भ्रातृगुणैर्नरः ।
कन्यास्त्रीभगिनीभाग्यो नरोऽधमतमो मतः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0