महासुभाषितसंग्रह · श्लोक 6507-6526
उत्तमो रसवादश्च धातुवादश्च मध्यमः ।
अधमो मन्त्रवादश्च मिथ्यावादोऽधमाधमः ॥
उत्तर गय कुर गलोचने लोचने कमलगर्वमोचने ।
अस्तु सुन्दरि कलिन्दनन्दिनी- वीचिडम्बरगभीरमम्बरम् ॥
उत्तरतश्च मधूकाद् अहिनिलयः पश्चिमोत्तरे तोयम् ।
परिहृत्य पञ्चहस्तान् अर्धाष्टमपौरुषं वाच्यम् ॥
उत्तरन्ति विनिकीर्य पल्वलं गाढप कमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभ गुरबिसा कुरा इव ॥
उत्तरादुत्तरं वाक्यम् उत्तरादेव जायते ।
सुवृष्टिगुणसंपन्नाद् बीजाद् बीजमिवापरम् ॥
उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
यासां तुषारसंभेदे न म्लायति मुखाम्बुजम् ॥
उत्तरीयविनयात् त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।
आवरिष्ट विकटेन विवोढुर् वक्षसैव कुचमण्डलमन्या ॥
उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम् ।
तव सख्यै मया दत्तो न सेव्यः सेविता रहः ॥
उत्तरेण सदा कार्यं प्राणस्य न विरोधकम् ।
संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् ॥
उत्तानफललुब्धानां वरं राजोपजीविनः ।
न तु तत्स्वामिनस्तीव्रपरिक्लेशैः फलन्ति ये ॥
उत्तानाः कति वेल्लिताः कति रयादाभुग्नमध्याः कति क्षिप्तोत्क्षिप्तविकुञ्चिताः कति भुजास्तौर्यत्रिकानुक्रमात् ।
कल्पान्तेषु महानटस्य झटिति प्रक्रान्तचक्रभ्रमि- भ्रान्तौ केवलमग्निहासगरलैर्लेखात्रयं पातु वः ॥
उत्तानामुपधाय बाहुलतिकामेकामपा गश्रिताम् अन्यामप्यलसां निधाय विपुलाभोगे नितम्बस्थले ।
नीवीं किंचिदवश्लथां विदधती निश्वासलोलालका तल्पोत्पीडनतिर्यगुन्नतकुचं निद्राति शातोदरी ॥
उत्तानोच्छूनमण्डूकपाटितोदरसंनिभे ।
क्लेदिनि स्त्रीव्रणे सक्तिर् अकृमेः कस्य जायते ॥
उत्तानोल्लपितप्रतारितनवश्रोत्रैः कथं भाव्यतां वाक्प्रत्यंशनिवेशिताखिलजगत्तत्त्वा कवीनां कला ।
रथ्यागर्तविगाहनाद्भुतकृतैर्गाह्यः क्व रत्नाकरो यस्यान्तःशफराधमाननतटीमज्जद्गिरीन्द्राः श्रियः ॥
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी पद्मासनं त्विदम् ॥
उत्तारकमतिस्निग्धं भ्रूक्षेपवशवर्ति च ।
सदा मुखस्थं मित्रं चेन् नेत्रेण चपलेन किम् ॥
उत्तारयति विपत्ताव् इति धनवत्तामपेक्षते क्षितिपः ।
चेन्नेह तदुपयोगस् तं नियतं वित्तसंचयो रोगः ॥
उत्तालताटकोत्पातदर्शनेऽप्यप्रकम्पितः ।
नियुक्तस्तत्प्रमाथाय स्त्रैणेन विचिकित्सति ॥
उत्तालतालीवनसंप्रवृत्त- समीरसीमन्तितकेतकीकाः ।
आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥
उत्तालापीतहालारसविवशमनोवृत्तिताला कसीर- प्रोत्खाताकृष्टकालागुरुरुचिररुचिः स्त्रोतसोन्मादशीला ।
अच्छण्डीद्वीपवन्दीभवदखिलचलत्कान्दिशीकोग्रनक्रा कालिन्दी वोऽस्तु संदीपितसुकृतचयोद्रेकम्न्दीकृतैनाः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0