महासुभाषितसंग्रह · श्लोक 6467-6486
उत्तमकुलेऽपि जातः सेवां विदधाति नीचलोकस्य ।
वदति च वाचं नीचाम् उदरेश्वरपीडितो मर्त्यः ॥
उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
स्फुटसंनिहितविभावो निवार्यते केन शृ गारः ॥
उत्तमपदार्थरसिकाः सुलभा लोके भवन्ति सर्वेऽपि ।
दूषितपदार्थरसिकस् त्वमिव मतस् त्वं पुनः करट ॥
उत्तमभुजंगसंगम- निस्पन्दनितम्बचापलस्तस्याः ।
मन्दरगिरिरिव विबुधैर् इतस्ततः कृष्यते कायः ॥
उत्तमर्णधनदानश कया पावकोत्थशिखया हृदिस्थया ।
देव दग्धवसना सरस्वती नास्यतो बहिरुपैति लज्जया ॥
उत्तमर्णमुखं पश्यन्न् अधमर्णो ह्रिया नमन् ।
मृत्युजीवितयोर्युद्धसंभ्रमं परिलोकते ॥
उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् ।
आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन् हरसि ॥
उत्तमश् चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः ।
अधमोऽश्रद्धया कुर्याद् अकर्तोच्चरितम् पितुः ॥
उत्तमस्तोषमायाति तद गं पोष्यते यदि ।
वृक्षः प्रसीदति प्रायः पादाभ्य गेन न स्वयम् ॥
उत्तमस्य क्षणं कोपो मध्यस्य प्रहरद्वयम् ।
अधमस्य त्वहोरात्रं पापिष्ठो नैव मुच्यते ॥
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
बालो वा यदि वा वृद्धः सर्वस्याभ्यागतो गुरुः ॥
उत्तमाः स्वगुणैः ख्याता मध्यमाश्च पितुर्गुणैः ।
अधमा मातुलस्यापि श्वशुरस्याधमाधमाः ॥
उत्तमाः स्वार्जितैर्द्रव्यैः पितुर्वित्तेन मध्यमाः ।
अधमा मातृवित्तेन स्त्रीवित्तेनाधमाधमाः ॥
उत्तमा आत्मनः ख्याताः पितुः ख्याताश्च मध्यमाः ।
अधमा मातुलात् ख्याताः श्वशुराच् चाधमाधमः ॥
उत्तमा गोद्भवाज् ज्यैष्ठ्याद् ब्रह्मणश्चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥
उत्तमाधममध्यानां श्रोतव्यं वचनं बुधैः ।
तत्र चात्महितं ग्राह्यं वस्तवाक्यं यथा नृपः ॥
उत्तमाधममध्यानि बुद्ध्वा कार्याणि पार्थिवः ।
उत्तमाधममध्येषु पुरुषेषु नियोजयेत् ॥
उत्तमाधमसंसक्तौ जानन् सदृशवृत्तिताम् ।
नारीणां शुचिबाह्यानाम् अ गनाख्यां व्यधाद् विधिः ॥
उत्तमानां स्वभावोऽयं परदुःखासहिष्णुता ।
स्वयं दुःखं च संप्राप्तं मन्यतेऽन्यस्य वार्यते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0