महासुभाषितसंग्रह · श्लोक 6447-6466
उत्क्षिप्यालकमालिकां विलुलितामापाण्डुगण्डस्थलाद् विश्लिष्यद्वलयप्रपातभयतः प्रोल्लास्य किंचित् करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना मार्गालोकनदत्तदृष्टिरबला तत्कालमालि ग्यते ॥
उत्क्षिप्योच्चैः प्रस्फुरन्तं रदाभ्याम् ईषादन्तः कुञ्जरं शात्रवीयम् ।
शृ गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत् साम्यमुर्वीधरस्य ॥
उत्खातं निधिश कया क्षितितलं ध्माता गिरेर्धातवो निस्तीर्णः सरितांपतिर्नृपतयो यत्नेन संसेविताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः प्राप्तः काणवराटकोऽपि न मया तृष्णेऽधुना मा भव ॥
उत्खातच्छिन्नसंध्यारुणकमलवनो व्योमकासारमध्यं मन्ये मत्तो निशीथाह्वयवनमहिषो म क्ष्वविक्षन्मिम क्षुः ।
तत्कालोद्भिद्यमानः सह तनुपृथुभिस् तारकाबुद्बुदौघैस् तस्मादेवोज्जिहीते कलुषितभुवनं भीषणो ध्वान्तप कः ॥
उत्खातदैवतमिवायतनं पुरारेर् अस्ताचलान्तरितसूर्यमिवान्तरिक्षम् ।
हम्मीरभूभुजि गते सुरवेश्म विश्वं पश्यामि हारमिव नायकरत्नशून्यम् ॥
उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वंल्लघून् वर्धयन् अत्युच्चान् नमयन् पृथून् विदलयन् विश्लेषयन् संहतान् ।
तीक्ष्नान् कण्टकिनो बहिर्नियमयन् स्वारोपितान् पालयन् मालाकार इव प्रयोगकुशलो राज्ये चिरं तिष्ठति ॥
उत्खाय चित्तोपवनात् सुमेधो- माला कृता पुस्तकनिष्कुटेषु ।
काव्यद्रुमाणामधिरोपितानां फलं परां निर्वृतिमुन्नयामः ॥
उत्खेलत्त्रिवलीतर गतरला रोमावलीशैवल- स्त्रग्वल्लिर्युवती ध्रुवं जनमनोनिर्वाणवाराणसी ।
एतस्या यदुरस्तटीपरिसरे यद्बाल्यचापल्ययोः स्थाने यौवनशिल्पिकल्पितचिताचैत्यद्वयं दृश्यते ॥
उत्तंसः केकिपिच्छैर्मरकतवलयश्यामले दोःप्रकाण्डे हारः सान्द्रेन्द्रनीलैर्मृगमदरचितो वक्त्रपत्रप्रपञ्चः ।
नीलाब्जैः शेखरश्रीरसितवसनता चेत्यभीकाभिसारे संप्रत्येणेक्षणानां तिमिरभरसखी वर्तते वेषलीला ॥
उत्तंसकौतुकरसेन विलासिनीनां लूनानि यस्य न नखैरपि पल्लवानि ।
उद्यानमण्डनतरो सहकार स त्वम् अ गारकारकरगोचरतां गतोऽसि ॥
उत्तंसितं भाति मुखप्रभाभिर् न किंचिदब्जं यदहो तदस्याः ।
युक्तं दृशावेव विधिर्विधिज्ञः कर्णद्वयालंकरणं चकार ॥
उत्तंसीकृतचन्द्रमाः सभुजगान् वीचीन् परावर्तयन् ज्योत्स्नाभस्मविलेपने निरवधिस्फीते महिम्नि स्थितः ।
प्रे कच्छ करोटिकोटिहननैः स्वःसिन्धुमुद्घोषयन्न् अत्यन्तं पथि गर्जिताट्टहसितो रुद्रं हसत्यर्णवः ॥
उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैर्लक्षितः साका क्षं लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।
कष्टं भोश्चिरमन्तरेव जलधेर्दैवाद् विशीर्णोऽभवत् खेलद्व्यालकुला गघर्षणपरिक्षीणप्रमाणो मणिः ॥
उत्तप्तोऽयमुरंगमः शिखितलच्छायां समालम्बते वैरं साहजिकं विहाय च शिखी मूलं तरोर्गच्छति ।
याचन्ते च जलं निकुञ्जभवने तृष्णातुराः सारिकास् तप्ते वारिणि प कजानि मधुपास्त्यक्त्वा श्रयन्ते लताः ॥
उत्तमं पुष्करक्षेत्रं ताराक्षेत्रं न मध्यमम् ।
अधमं च कुरुक्षेत्रं प्रभासं त्वधमाधमम् ॥
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन समशक्तिं पराक्रमैः ॥
उत्तमं सुचिरं नैव विपदोऽभिभवन्त्यलम् ।
राहुग्रसनसंभूतिः क्षणं विच्छाययेद् विधुम् ॥
उत्तमं स्वार्जितं वित्तं मध्यमं पितुरर्जितम् ।
अधमं भ्रातृवित्तं च स्त्रीवित्तमधमाधमम् ॥
उत्तमः क्लेशविक्षोभं क्षमः सोढुं न हीतरः ।
मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥
उत्तमः षट्पदः प्रोक्तो मध्यमः पञ्चभिस् तथा ।
कनिष्ठस्तु चतुर्भिः स्याद् एवं स्युर्ध्रुवकास् त्रिधा ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0