भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6307-6326

6307

उचितः प्रणयो वरं विहन्तं बहवः खण्डनहेतवो हि दृष्टाः ।
उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः ॥

6308

उचितकर्म तनोति न संपदाम् इतरदप्यसदेव विवेकिनाम् ।
इति निरस्तसमस्तसुखान्वयः कथमतो न विषीदतु पण्डितः ॥

6309

उचितगुणोत्क्षिप्ता अपि पुरतोऽपि निवेशिते सुवर्णलवे ।
झगिति पतन्ति मुखेन प्रकटप्रमदा यथा च तुलाः ॥
उचितव्ययशीलस्य कृशत्वमपि शोभते ।
द्वितीयश्चन्द्रमा वन्द्यो न वन्द्यः पूर्णचन्द्रमाः ॥

6310

उचितामुपास्य रुचिताम् अभिधेहि गिरं निरन्तरावहितः ।
अप्यायतिमति पुरुषे प्रभुणा कलुषेण भूयते कथिते ॥

6311

उचितेन विचारेण चारुतां यान्ति सूक्तयः ।
वेद्यतत्त्वावबोधेन विद्या इव मनीषिणाम् ॥

6312

उच्चं प्रदेशं भषणोऽधिरुह्य भषत्यभीक्ष्णं रविमीक्षमाणः ।
यदा तदानीमचिरेण वृष्टिर् अम्भोदमुक्ता भवति प्रभूता ॥

6313

उच्चः सत्फलदो यथायमहमप्येतादृगेतावता स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः ।
दूरादेव भवादृशोऽस्य महसा ध्वस्ताः समस्ताः स्वयं नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः ॥

6314

उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः ।
अतिनिम्नमध्यसंक्रम- दारुनिभस् तरुणि तव हारः ॥

6315

उच्चात् प्रदेशादवतीर्य निम्नं यो याति वामोऽथ सुखप्रदोऽसौ ।
निम्नप्रदेशात् पुनरुच्चदेशं यक्षो व्रजन् दक्षिणगोऽपि शस्तः ॥

6316

उच्चारणज्ञोऽथ गिरां दधानम् उच्चा रणत्पक्षिगणास् तटीस् तम् ।
उत्कं धरं द्रष्टुमवेक्ष्य शौरिम् उत्कं धरं दारुक इत्युवाच ॥
उच्चारूढैर्नरैरात्मा रक्षणीयोऽतियत्नतः ।
दूरारोहपरिभ्रंशविनिपातः सुदुःसहः ॥

6317

उच्चावचं जगद्दौःस्थ्यम् एक एव निषेधति ।
प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ॥

6318

उच्चावचं न कुरुत स्वनितं पत गास् तूर्णं मुखानि पशवो मुकुलीकुरुध्वम् ।
कर्णं प्रदाय रसिकाः कलयन्तु हर्षं तारं तनोति रणितं तरुणः पिकोऽयम् ॥

6319

उच्चावचकरान्याय्याः पूर्वराज्ञां युधिष्ठिर ।
यथा यथा न हीयेरंस् तथा कुर्यान् महीमतिः ॥

6320

उच्चावचानि जननानि भवन्ति यावत् कर्माणि तावदखिलानि लयं न यान्ति ।
तत् कर्ममूलहननाय यतध्वमार्या यावच्छिरो न विरमेज् जलबन्धरोगः ॥

6321

उच्चासनगतो नीचः नीच एव न चोत्तमः ।
प्रसादशिखरस्थोऽपि काकः किं गरुडायते ॥

6322

उच्चित्यं प्रथममधः स्थितं मृगाक्षी पुष्पौघं श्रितविटपं ग्रहीतुकामा ।
आरोढुं चरणमदादशोकयष्टेर् आमूलं पुनरपि तेन पुष्पितोऽसौ ॥

6323

उच्चीकृतग्रीवमहो मुधैव किं याचसे चातकपोत मेघम् ।
अत्यूर्ज्जितं गर्ज्जितमात्रमस्मिन्न् अम्भोधरे बिन्दुलवस् तु दूरे ॥

6324

उच्चीयन्ते स्म वेश्मन्यशनविरहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकबीजान्यपि चटकवधूचञ्चुकोटिच्युतानि ।
यस्मिन् दातर्यकस्माच् चटुलवटुकराकृष्टमुक्तावचूल- भ्रष्टास् तत्रैव दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौघाः ॥

6325

उच्चैः कल्याणवाही करजितवसुधः सर्वदा पूर्णकामो विख्यातः कर्णवृत्त्या न च वचसि कटुश्चित्रपाकानुभावी ।
कोषापेक्षी परस्मादुचितबहुकथस् तत्परः पुण्यलोके चित्रं राजाधिराज त्वमिव तव रिपुस् तत्र कम्पं प्रतीमः ॥

6326

उच्चैः कुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः ।
शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc