महासुभाषितसंग्रह · श्लोक 6287-6306
उक्तं दुर्वचनं मया न सुभगे हास्येऽपि दुःखप्रदं त्यक्त्वा त्वामपि भाषितैरपि मया नान्या गना लालिता ।
त्वामेकामनवद्यभूषणभरैः संभावयामि त्वया हे निष्कारणकोपने वद कृतः कोपः किमर्थं मयि ॥
उक्तं परस्यामिषताम् अनुक्तं यात्यदृश्यताम् ।
हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥
उक्तं यत् कृपणं वचो विरचितो भूयान् वसूनां व्ययः सोढाः किं च वियोगवज्रततयो दूती मुहुः प्रेषिता ।
बद्धोऽयं प्रणयाञ्जलिर्विनिहिते बाष्पाम्बुधौते दृशौ निष्पीयाधरपल्लवं मृगदृशः सर्वे सखे विस्मृतम् ॥
उक्तस् (उत्तस्) ते रुधिरेणाहं स्पृष्टं ते मस्तकं मया ।
इत्येताञ् शपथान् कृत्वा सा वै गम्या पुनः पुनः ॥
उक्ता गच्छति लज्जिता विरमति प्रेम्णा मनागिक्षते केशांल्लुञ्चति जृम्भणं रचयति प्रस्तौति गाथां मुहुः ।
आलि गत्यपरां विरौति परुषं चुम्बत्यसौ बालकं गात्रं भञ्जति जृम्भते विहसति प्रत्युत्तरं याचते ॥
दोर्मूलं खलु दर्शयेत् स्तनयुगे वस्त्रं समालम्बते अ गुष्ठेन लिखेन्महीं स्मितमुखी व्रीडां विधत्ते मृषा ।
दन्तेनाधरपल्लवं विदशति व्यक्तं तथा भाषते भावैरेभिरिह स्फुटं मृगदृशां ज्ञेयोऽभिलाषः सदा ॥
उक्ता ब्रवीषि सुरतं न मया निशायास् त्वं दौष्टवेन गजगामिनि लज्जया वा ।
ताम्बूलकज्जलकुचामयचिह्नचित्रं तत् संनिवेदयति मां रमणोत्तरीयम् ॥
उक्तिर्नान्या स्फुरति नियतं ध्यानमन्यन्न चास्ते पश्यत्यन्यं न खलु नयनं न श्रवोऽपि शृणोति ।
श्यामं श्यामं पथिषु चकितं रीतिरेतादृशी नो वृन्दारण्ये चिरपरिचिताः के न जीवन्ति नार्यः ॥
उक्तेन बहुना किं वा किं कृतैः शपथैर्घनैः ।
वदामि सत्यमेवैतत् त्वमेव मम मानसे ॥
उक्त्वानृतं भवेद् यत्र प्राणिनां प्राण्रक्षणम् ।
अनृतं तत्र सत्यं स्यात् सत्यमप्यनृतं भवेत् ॥
कामिनीषु विवाहेषु गवां मुक्तौ तथैव च ।
ब्राह्मणानां विपत्तौ च शपथैर्नास्ति पातकम् ॥
उग्रग्राहमुदन्वतो जलमतिक्रामत्यनालम्बने व्योम्नि भ्राम्यति दुर्गमं क्षितिभृताम् प्राग्भारमारोहति ।
कीर्णं याति विषाकुलैरहिकुलैः पातालमेकाकिनी कीर्तिस्ते नयनाभिराम कृतकं मन्ये भयं योषिताम् ॥
उग्रत्वं च मृदुत्वं च समयं वीक्ष्य संश्रयेत् ।
अन्धकारमसंहृत्य नोग्रो भवति भास्करः ॥
उग्ररूपं कुचद्वन्द्वं हारग गाधरं तव ।
चन्द्रचूडं करिष्यामि कुरु तावद् दिगम्बरम् ॥
उग्राभिष गमनुष गि परस्य दुःखं हन्ताश्लथं व्यथयति प्रसभार्द्रभावम् ।
बद्धः सरोजकुहरे विरहार्तनादैश् चक्राभिधस्य मधुपोऽधिकमेति दैन्यम् ॥
उग्रावग्राहमग्ना कुशधुवनधुताधोरणास्फालिता गैः प्रत्यग्रोद्दण्डशुण्डोड्डमरणसमरत्रस्तदि ना गचक्रैः ।
आलोक्यालोक्य शैलानुरुचरणरणच्छृ खलाघट्टयद्भिर् यस्याशाभित्तिजेतुर्मदकलकरिभिः क्वापि न प्रापि र गः ॥
उग्रैः शापैरुपहतिभिया रक्षसा दूरमुक्ताः दग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।
उत्पश्यन्त्यो जनकतनयातेजसैव स्वरक्षां रोधं यस्यामनुविदधते लोकपालावरोधाः ॥
उचितं गोपनमनयोः कुचयोः कनकाद्रिकान्तितस्करयोः ।
अवधीरितविधुमण्डल- मुखमण्डलगोपनं किमिति ॥
उचितं नाम नार ग्यां केतक्यामपि कण्टकाः ।
रसगन्धोज्झिते किं ते कण्टकाः कण्टकारिके ॥
उचितं बन्धनमनयोः कुचयुगयोः केवलं तन्वि ।
युवजनमानसहाटक- चौरविधौ पश्यतोहरयोः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0