महासुभाषितसंग्रह · श्लोक 6327-6346
उच्चैः पदमधितिष्ठंल् लोकस् तत्त्वेषु मुह्यति प्रायः ।
विषयमपि पश्यति समं पर्वतशिखराग्रमारूढः ॥
उच्चैः प्रकथनं हासः ष्ठीवनं कुत्सनं तथा ।
जृम्भणं गात्रभ गं च पर्वस्फोटं च वर्जयेत् ॥
उच्चैः ष्ठीवनमुत्कटप्रहसितं शय्यासनोत्सर्पणं गात्रास्फोटनजृम्भणानि सुलभद्रव्यार्थसंप्रार्थनम् ।
बालालि गनचुम्बनान्यभिमुखे सख्याः समालोकनं दृक्पातश्च परा मुखो गुणकथा कर्णस्य कण्डूयनम् ॥
उच्चैः स्थानकृतोदयैर्बहुविधैर्ज्योतिर्भिरुद्यत्प्रभैः शुक्राद्यैः किममीभिरत्र वितथां प्रौढिं दधानैरपि ।
यावल्लोकतमोपहेन भवता लक्ष्मीर्न विस्तार्यते तावच्चन्द्र कथं प्रयाति परमां वृद्धिं स रत्नाकरः ॥
उच्चैःस्थितीनां विदुषां पदमारोढुमिच्छवः ।
सत्सुभाषितसोपानसेविनः सन्तु साधवः ॥
उच्चैरध्ययनं चिरंतनकथाः स्त्रीभिः सहालापनं तासामर्भकलालने रतिरथो तत्पाकमिथ्यास्तुतिः ।
पुत्रभ्रातृजनाशिषः सुभगतायोग्यत्वसंकीर्तनं स्वानुष्ठानकथाभिवादनविधिर्भिक्षोगुणा द्वादश ॥
उच्चैरध्ययनं पुरातनकथाः स्त्रीभिः सहालापनं तासामर्भकलालनं पतिनुतिस् तत्पाकमिथ्यास्तुतिः ।
आदेशस्य करावलम्बनविधिः पाण्डित्यलेखक्रिया होरागारुडमन्त्रतन्त्रकविधिर्भिक्षोगुणा द्वादश ॥
उच्चैरुच्चरतु चिरं चीरी वर्त्मनि तरुं समारुह्य ।
दिग्व्यापिनि शब्दगुणे श खः संभावना भूमिः ॥
उच्चैरुच्चरितव्यं यत् किंचिदजानतापि पुरुषेण ।
मूर्खा बहु मन्यन्ते विदुषामपि संशयो भवति ॥
उच्चैरुच्चैःश्रवास् तेन हयरत्नमहारि च ।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥
उच्चैरुच्चैस्तरामिच्छन् पदान्यायच्छते महान् ।
नीचो नीचैस्तरां याति निपातभयश कया ॥
उच्चैरुड्डीयमाना नतिमन्ते वहति या तु गच्छन्ती ।
यच्चिरलभ्यमथाल्पं तत्सा बहु यच्छति त्वरितम् ॥
उच्चैरुत्तालखेलद्भुजवनपवनोद्धूतशैलौघपात- स्फारोदञ्चत्पयोधिप्रकटितमकुटस्वर्धुनीसंगमानि ।
जीयासुस् ताण्डवानि स्फुटविकटजटाकोटिसंघट्टभूरि- भ्रश्यन्नक्षत्रचक्रव्यवहितसुमनोवृष्टिपातानि शंभोः ॥
उच्चैरुत्तालगण्डस्थलबहुलगलद्दानपानप्रमत्त- स्फीतालिव्रातगीतिश्रुतिविधृतिकलोन्मीलितार्धाक्षि पक्ष्मा ।
भक्तप्रत्यूहपृथ्वीरुहनिवहसमुन्मूलनोच्चैरुदञ्चच्- छुण्डादण्डाग्र उग्रार्भक इभवदनो वः स पायादपायात् ॥
उच्चैरुद्घोष्य जेतव्यं मध्यस्थश्चेदपण्डितः ।
पण्डितो यदि तत्रैव पक्षपातोऽधिरोप्यताम् ॥
उच्चैरुन्मथितस्य तेन बलिना दैवेन धिक्कर्मणा लक्ष्मीमस्य निरस्यतो जलनिधेर्जातं किमेतावता ।
गाम्भीर्यं किमयं जहाति किमयं पुष्णाति नाम्भोधरान् मर्यादां किमयं भिनत्ति किमयं न त्रायते वाडवम् ॥
उच्चैरेष तरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः पक्वं शालिवनं विहाय जडधीस् तां नालिकेरीं गतः ।
तामारुह्य बुभुक्षितेन मनसा बुद्धिः कृता भेदने आशा तस्य न केवलं विगलिता चञ्चूर्गता चूर्णताम् ॥
उच्चैर्दैवादिह पशुपतौ भूषणीभूय तिष्ठन् कालव्याल प्रथयसि फणां भीषणां तावदेव ।
देवे दूरादविनयभयाद् यावदेवं गरुत्मान् कोपाटोपं कथमपि तिरोभावयन् मौनमास्ते ॥
उच्चैर्निषादगान्धारौ नीचैरृषभधैवतौ ।
शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ॥
उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधानः प्रे खन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरा मः ।
देवः शंबोरपत्यं भुजगपतितनुस्पर्द्धिवर्द्धिष्णुहस्तस् त्रैलोक्याश्चर्यमूर्तिः स जयति जगतामीश्वरः कुञ्जरास्यः ॥
उच्चैर्महारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।
अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0