भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6227-6246

6227

इहोद्याने सम्प्रत्यहह परिशिष्टाः क्रमवशाद् अमी वल्मीकास् ते भुजगकुललीलावसतयः ।
गतास् ते विस्तीर्णस्तबकभरसौरभ्यलहरी- परीतव्योमानः प्रकृतिगुरवः केऽपि तरवः ॥

6228

इहोपपत्तिर्मम केन कर्मणा क्व वा प्रयातव्यमितो भवेदिति ।
विचारणा यस्य न विद्यते स्मृतौ कथं स धर्मप्रवणो भविष्यति ॥

6229

ईक्षणध्यानसंस्पर्शैर् मत्स्यकूर्मविहङ्गमाः ।
पोषयन्ति स्वकान् पुत्रान् तद्वत् पण्डितवृत्तयः ॥

6230

ईक्षितोपदिशतीव नर्तितुं तत्क्षणोदितमुदं मनोभुवम् ।
कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती ॥

6231

ईदृशं कारयेन् न्यासं येन श्रेयो भविष्यति ।
अन्येऽपि दुष्टमन्त्रेण न हिंसन्ति कदाचन ॥

6232

ईदृशं निगदति प्रिये दृशं संमदात् कियदियं न्यमीलयत् ।
प्रातरालपति कोकिले कलं जागरादिव निशः कुमुद्वती ॥

6233

ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ।
को नाम स भवेत् तस्य यमेष न परित्यजेत् ॥

6234

ईदृशस्य भवतः कथमेतल् लाघवं मुहुरतीव रतेषु ।
क्षिप्तमायतमदर्शयदुर्व्यां काञ्चिदाम जघनस्य महत्त्वम् ॥

6235

ईदृशे व्यवहाराग्नौ मन्त्रिभिः परिपातिताः ।
स्थाने खलु महीपाला गच्छन्ति कृपणां दशाम् ॥

6236

ईदृशैः श्वेतकाकीयै राज्ञः शासनदूषकैः ।
अपापानां सहस्राणि हन्यन्ते च हतानि च ॥

6237

ईप्सितं मनसः सर्वं कस्य संपद्यते सुखम् ।
दैवायत्तं यतः सर्वं तस्मात् संतोषमाश्रयेत् ॥

6238

ईर्ष्यया रक्षतो नारीर् धिक् कुलस्थितिदाम्भिकान् ।
स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः ॥

6239

ईर्ष्ययैव समुद्विग्नाः पुरुषाद् दुष्टचेतसः ।
अतिसक्ताः पलायन्ते श्रीधृतिस्मृतिकीर्तयः ॥

6240

ईर्ष्या कलहमूलं स्यात् क्षमा मूलं हि संपदाम् ।
ईर्ष्यादोषाद् विप्रशापम् अवाप जनमेजयः ॥

6241

ईर्ष्या कुलस्त्रीषु न नायकस्य निःशङ्ककेलिर्न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं सर्वस्वमेतास् तदहो स्मरस्य ॥

6242

ईर्ष्याद् हि कुप्यते वेश्या प्रसङ्गाच् च विरज्यते ।
स्तब्धातिगमनाच् चापि दानादपि विलुप्यते ॥

6243

ईर्ष्याप्रस्फुरिताधरोष्ठरुचिरं वक्त्रं न मे दर्शितं साधिक्षेपपदा मनागपि गिरो न श्राविता मुग्धया ।
मद्दोषैः सरसैः प्रतापितमनोवृत्त्यापि कोपोऽनया काञ्च्या गाढतरावबद्धवसनग्रन्थ्या समावेदितः ॥

6244

ईर्ष्याभयक्रोधसमन्वितेन लुब्धेन रुग्दैन्यनिपीडितेन ।
विद्वेषयुक्तेन च सेव्यमानम् अन्नं न सम्यक् परिपाकमेति ॥

6245

... ... ... ... ... ... ॥
ईर्ष्यामलं खलेष्वास्ते विषमाशीविषेष्विव ॥

6246

ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस् तस्याः ।
च्युतवसनजघनभावन- सान्द्रानन्देन निर्वामि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc