महासुभाषितसंग्रह · श्लोक 6247-6266
ईर्ष्या लोभो मदः प्रीतिः क्रोधो भीतिश् च साहसम् ।
प्रवृत्तिच्छिद्रहेतूनि कार्ये सप्त बुधा जगुः ॥
ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः ।
परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥
ईशः करस्थीकृतकाञ्चनाद्रिः कुबेरमित्रं रजताचलस्थः ।
तथापि भिक्षाटनमस्य जातं विधौ शिरःस्थे कुटिले कुतः श्रीः ॥
ईशानोत्थैः शकुनैश् चोरा ग्रामं प्रविश्य न लभन्ते ।
न च रोगार्तो जीवति स्वस्थोऽप्यस्वास्थ्यमाप्नोति ॥
ईशानोत्थैः शकुनैर् विशेषतः शूरमण्डलाक्रान्तैः ।
रिपुवेष्टित इव दूरं त्यक्त्वा स्थानं पलायेत ॥
ईशे पदप्रणयभाजि मुहूर्तमात्रं प्राणप्रियेऽपि कुरु मानिनि मा प्रसादम् ।
जानातु मत्पतिरसौ पदयोर्नतानाम् अस्मादृशामपि मनोरथभङ्गदुःखम् ॥
ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥
ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ।
वृद्धानामपि यद् बुद्धिर् बालवाक्यैर्विभिद्यते ॥
ईश्वरः स जगत्पूज्यः स वाग्मी चतुराननः ।
यस्यास्ति द्रविणं लोके स एव पुरुषोत्तमः ॥
स एवाहृदयो राहुर् अलसः स शनैश्चरः ।
वक्रः कुजन्मा सततं वित्तं यस्य न विद्यते ॥
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥
ईश्वरगृहमिदमत्र हि विषं च वृषभश् च भस्म चाद्रियते ।
यस् तु न विषं न वृषभो न भस्म तस्यात्र का गणना ॥
ईश्वरपरिग्रहोचित- मोहोऽस्यां मधुप किं मुधा पतसि ।
कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥
ईश्वरमाराधयतो विगलितमानस्य लब्धमैश्वर्यम् ।
स्फुटमेव भवति लघिमा गरिमापि कथं न जानीमः ॥
ईश्वरसेवा सुलभ- न्यक्कारा दुर्लभोत्कर्षा ।
चिरपरिचर्या विफला निर्माल्या निष्क्रमोऽपि निरयाय ॥
ईश्वरस्य जगत् कृत्स्नं सृष्टिमाकुलयन्निमाम् ।
अस्ति योऽस्त्रीकृतस्त्रीकस् तस्य वैरं स्मरन्निव ॥
ईश्वराः पिशुनाञ् शश्वद् बिभ्रतीति किमद्भुतम् ।
प्रायो निधय एवाहीन् द्विजिह्वान् दधतेतराम् ॥
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
तेषां यत् स्ववचोयुक्तं बुद्धिमांस् तत् समाचरेत् ॥
ईश्वराणामिदं तन्त्रं प्रायेणौत्सुक्यमावहेत् ।
यतस् तिरश्चां चरितैर् नीतिमार्गः प्रदर्श्यते ॥
ईश्वरात् समभूद् रुद्रो ज्योतिर्मय उमापतिः ।
रुद्राद् विष्णुरभूदाद्यस् त्रैलोक्यपरिपालकः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0