महासुभाषितसंग्रह · श्लोक 6207-6226
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह ।
इह चामुत्र वैकस्य नामुत्रैकस्य नो इह ॥
इह व्याधव्यूहः पटुघटितयन्त्रप्रहरणो मृगेन्द्राणां वल्गत् प्रखरनखराणां कुलमिह ।
इहालङ्घ्यः शैलो बहलतरपङ्का सरिदिह प्रदीप्तोऽग्निर्मध्येवनमहह कष्टं करिपतेः ॥
इह शय्यागतेनापि बन्धुमध्यस्थितेन वा ।
मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥
इह शिखरकरालक्षोणिभिद्गण्डशैल- स्खलनदलनगर्जत्फेनिलो बुद्बुदौघः ।
पवनधृतशिरीषश्रेणिरेणुप्रणाली- सुरभिसलिलदृप्ता द्वीपवत्यो वहन्ति ॥
इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा ।
वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥
इह संतमसे घनागमे सुखितं भानवमैन्दवं वपुः ।
तडिदुज्ज्वलदीपलेखया हरितोऽमूः परितो विचिन्वति ॥
इह समदशकुन्ताक्रान्तवानीरवीरुत्- प्रसवसुरभिशीतस्वच्छतोया वहन्ति ।
फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ॥
इह सरसि सलीलं चारुपत्रे विधुन्वन् दरतरलिततिर्यक्चञ्चुकण्डूयिताङ्गः ।
अनुसरति सरागः प्रेयसीमग्रयाताम् अनुपदसमुदञ्चत्कण्ठनालो मरालः ॥
इह सरसि सहर्षं मञ्जुगुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजिनीभिः ।
अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रां मालती यावदेषा ॥
इह सर्वस्वफलिनः कुलपुत्रमहाद्रुमाः ।
निष्फलत्वमलं यान्ति वेश्याविहगभक्षिताः ॥
इह सामान्यानुगमं समुपदिशन्तः स्थलेष्वनेकेषु ।
लिङ्गपरामर्शपरा नवीननैयायिका यान्ति ॥
इह स्फुटं तिष्ठति नाथ कण्टकः शनैः शनैः कर्ष नखाग्रलीलया ।
इति च्छलात् काचिदलग्नकण्टकं पदं तदुत्सङ्गतले न्यवेशयत् ॥
इह हि नववसन्ते मञ्जरीपुञ्जरेणु- च्छुरणधवलदेहा बद्धहेलं सरन्ति ।
तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारम् ॥
इह हि मधुरगीतं रूपमेतद् रसोऽयं स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हृतपरमार्थैरिद्रियैर्भ्राम्यमाणः स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥
इहानेके सत्यं वृषमहिषमेषाः सुतुरगा गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः ।
गजानामास्थानं मदसलिलजम्बालितभुवां तदेको विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥
इहानेके सन्तः सततमुपकारिण्युपकृतिं कृतज्ञाः कुर्वन्तो जगति निवसन्तोऽपि सुधियः ।
कियन्तस् ते सन्तः सुकृतपरिपाकप्रणयिनो विना स्वार्थं येषां भवति परकृत्यव्यसनिता ॥
इहाविशद्येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ।
सोऽस्याः श्रवःपत्रयुगे प्रणाली- रेखेव धावत्यभिकर्णकूपम् ॥
इहैकश् चूडालोऽभ्यजनि कलशाद् यस्य सकलैः पिपासोरम्भोभिश् चुलुकमपि नो भर्तुमशकः ।
स्वमाहात्म्यश्लाघागुरुगहनगर्जाभिरमितः कुषित्वा क्लिश्नासि श्रुतिकुहरमब्धे किमिति नः ॥
इहैव नरकव्याधेश् चिकित्सां न करोति यः ।
गत्वा निरौषधस्थानं स रोगी किं करिष्यति ॥
इहैव भुवने जातं सत्त्वसंस्थापनं क्षमम् ।
गृह्यते किमपि स्वस्थैर् अन्यत् किमपि जिह्मगैः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0