महासुभाषितसंग्रह · श्लोक 6146-6165
इष्टां भार्यां प्रियं मित्रं पुत्रं चापि कनीयसम् ।
रिक्तपाणिर्न पश्येत तथा नैमित्तिकं प्रभुम् ॥
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः ।
आपद्धर्मविमोक्षाय भार्या चापि सतां मतम् ॥
इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥
इष्टापूर्तानि कलयेत् जगत्ख्यातो वसेद् दिवि ।
अकूपारोक्तवृत्तोऽगाद् इन्द्रद्युम्नो दिवं पुनः ॥
इष्टा बालकचेष्टा यौवनदर्पोऽथ वृद्धवैराग्यम् ।
सापि गता सोऽपि गतस् तदपि गतं स्वप्नमायेयम् ॥
इष्टा मखा द्विजवराश् च मयि प्रसन्नाः प्रज्ञापिता भयरसं समदा नरेन्द्राः ।
एवंविधस्य च न मेऽस्ति मनःप्रहर्षः कन्यापितुर्हि सततं बहु चिन्तनीयम् ॥
इष्टेषु विसृजत्यर्थान् कुबेर इव कामदः ।
नमस्येयुश् च तं भक्त्या शिष्या इव गुरुं सदा ॥
इष्टो वा बहुसुकृतोपलालितो वा श्लिष्टो वा व्यसनशताभिरक्षितो वा ।
दौःशील्याज् जनयति नैव जात्वसाधुर् विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥
इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा ।
अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना ॥
इह कपटकुतुकतरलित- दृशि विश्वासं कुरङ्ग किं कुरुषे ।
तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥
इह किं कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।
तृणबाणस् तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥
इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः ।
अवलीढविश्वतमसः पुरो रवेर् नहि जातु दीपकशिखा प्रकाशते ॥
इह खलु विषमः पुरा कृतानां विलसति जन्तुषु कर्मणां विपाकः ।
हरशिरसि शिरांसि यानि रेजुः शिव शिव तानि लुठन्ति गृध्रपादैः ॥
इह गमिष्यति वैद्यमतिः श्रमं प्रथममेव पुरस्तु महासुखम् ।
प्रियतमस्य मृगाक्षि समागमे नवकरग्रहणा गृहिणी यथा ॥
इह गुरुजलभारपूर्णगर्भाः प्रदरदरीभ्रमभूरिभीमवेगाः ।
तटकटकनियुध्यमानवेणी- द्विगुणमहारवभैरवास् तटिन्यः ॥
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः ।
विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥
भीतेभ्यश् चाभयं देयं व्याधितेभ्यस् तथौषधम् ।
देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥
इह चैव स्त्रियो धन्याः शीलस्य परिरक्षणात् ।
शीलभङ्गे च नारीणां यमलोकः सुदारुणः ॥
शीलं रक्ष्यं सदा स्त्रीभिर् दुष्टसंगविवर्जनात् ।
शीलेन हि परः स्वर्गः स्त्रीणां वैश्य न संशयः ॥
इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता ।
खलु भवति तदेव तस्य सर्वं भुवनपतिस् तु यदीश्वरः करोति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0