भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 6126-6145

6126

इयत्यप्येतस्मिन् निरवधिमहत्यध्वनि गुणास् त एवामी द्वित्रा जरठजरठा यान्ति गणनाम् ।
अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः स्मयस्तब्धो यावत् कलयति समग्रं तृणमिदम् ॥

6127

इयत्यां संपत्तावपि च सलिलानां त्वमधुना न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरान् कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥

6128

इयत्यामपि सामग्र्यां सुकृतं न कृतं त्वया ।
इतीव कुपितो दन्तान् अन्तकः पातयत्यलम् ॥

6129

इयत्येतस्मिन् वा निरवधिचमत्कृत्यतिशयो वराहो वा राहुः प्रभवति चमत्कारविषयः ।
महीमेको मग्नां यदयमवहद् दन्तशललैः शिरःशेषः शत्रुं निगिलति परं संत्यजति च ॥

6130

इयमत्र कयापि दिशा नीतिदृशां दर्शिता पदवी ।
चाणक्याद्यभिधानाज् ज्ञेयनिधानादथान्यदुन्नेयम् ॥

3131

इयमत्र सतामलौकिकी महती कापि कठोरचित्तता ।
उपकृत्य भवन्ति दूरतः परतः प्रत्युपकारभीरवः ॥

6132

इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी ।
गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥

6133

इयमवयवैः पाण्डुक्षामैरलंकृतमण्डना कलितकुसुमा बालेवान्तर्लता परिशोषिणी ।
वहति च वरारोहा रम्यां विवाहमहोत्सव- श्रियमुदयिनीमुद्गाढां च व्यनक्ति मनोरुजम् ॥

6134

इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥

6135

इयमानन्दलतिका न ग्रीवा हरिणीदृशः ।
यतोऽस्यां विलुठन्त्येते मुक्ताः शुद्धगुणान्तराः ॥

6136

इयमियं मयदानवनन्दिनी त्रिदशनाथजितः प्रसवस्थली ।
किमपरं दशकंधरगेहिनी त्वयि करोति करद्वययोजनम् ॥

6137

इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥

6138

इयमुदरदरी दुरन्तपूरा यदि न भवेदभिमानभङ्गभूमिः ।
क्षणमपि न सहे भवादृशानां कुटिलकटाक्षनिरीक्षणं नृपाणाम् ॥

6139

इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरतः ।
न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥

6140

इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश् च तादृशः ॥

6141

इलातलभराक्रान्तग्रीवं मा शेष वक्रय ।
त्वयि दुःखिनि चैकस्मिञ् जीवलोकः सदा सुखी ॥

6142

इलिका भ्रमरीध्यानं ध्यायन्ती भ्रमरी भवेत् ।
वीतरागपदं ध्यायन् वीतरागो भवेद् ध्रुवम् ॥

6143

इषुत्रयेणैव जगत्त्रयस्य विनिर्जयात् पुष्पमयाशुगेन ।
शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपदेऽभिषिच्य ॥

6144

इष्टं ददाति गृह्णाति कार्यमाख्याति पृच्छति ।
भुङ्क्ते भोजयते चैव षड्विधं मित्रलक्षणम् ॥

6145

इष्टकचिते समन्तात् पुरुषनिखातेऽवटे तरुर्जातः ।
वामन एव हि धत्ते फलकुसुमं सर्वकालमिति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc