महासुभाषितसंग्रह · श्लोक 6166-6186
इह जगति रतीशप्रक्रियाकौशलिन्यः कति कति न निशीथे सुभ्रुवः संचरन्ति ।
मम तु विधिहताया जायमानस्मितायाः सहचरि परिपन्थी हन्त दन्तांशुरेव ॥
इह तव देव निपतता करकमलकुशोदकेन जायन्ते ।
तत्तद्दूरदरिद्र- द्वारि द्विपदानवारिभिः सरितः ॥
इह तुरगशतैः प्रयान्तु मूर्खा धनरहिता विबुधाः प्रयान्तु पद्भ्याम् ।
गिरिशिखरगतापि काकपङ्क्तिः पुलिनगतैर्न समत्वमेति हंसैः ॥
इह दुःखं नृपादिभ्यः परत्र नरकादितः ।
प्राप्नोति स्तेयतस् तेन स्तेयं त्याज्यं सदा बुधैः ॥
इह दुःखं लयः प्रोक्तो दुःखं हर्तुं लयः क्षमः ।
दुःखे शुभे लयो दुःखं दुःखं किं तस्य कथ्यते ॥
इह धर्मार्थकामानाम् अवाप्तिफलमिष्यते ।
तत्रार्थः सह कामेन निरीक्ष्यो धर्मचक्षुषा ॥
परित्यज्य हि यो धर्मम् अर्थमर्थाय पश्यति ।
कामं वा कामलाभाय न स बुद्धेषु बुद्धिमान् ॥
इह नगरे प्रतिरथ्यं भुजंगसंबाधरुचिरसंचारे ।
सुन्दरि मम मतमेतन् नकुलप्रतिपालनं श्रेयः ॥
इह निचुलनिकुञ्जे मध्यमध्येऽस्य रन्तुर् विजनमजनि शय्या कस्य बालप्रवालैः ।
इति कथयति वृन्दे योषितां पान्तु युष्मान् स्मितशबलितराधामाधवालोकितानि ॥
इह निचुलनिकुञ्जे वंशसंभारभाजि स्वपिमि यदि मुहूर्तं पश्यसि क्षेत्रमेतत् ।
इति पथिकमकस्मान् मार्ग एवोपविष्टं वदति तरुणकान्तं गोपिका साङ्गभङ्गम् ॥
इह निभृतनिपातमूकपादं वलयितकार्मुकवल्लयः किराताः ।
भवदलसविलोकनानभिज्ञा मृगगृहिणि प्रहरन्ति गच्छ दूरम् ॥
इह निवसति मेरुः शेखरो भूधराणाम् इह हि निहितभाराः सागराः सप्त चैव ।
इदमतुलमनन्तं भूतलं भूरिभूतोद्- भवधरणसमर्थं स्थानमस्मद्विधानाम् ॥
इह निशि निबिडनिरन्तर- कुचकुम्भद्वितयदत्तहृदयभरा ।
रमणगुणकृष्यमाणा संतरति तमस्तरङ्गिणीं कापि ॥
इह परिचिता जात्यन्धानामियं न तवोन्नतिर् गुणपरिचये चक्षुष्मन्तो त्वयातिविडम्बिताः ।
कृपणवणिजामल्पीकर्तुं गुणांस् तव केवलं मरकत मृषा दोषोद्गारः करिष्यति दुर्यशः ॥
इह परिमलो यत्र व्यक्तो न तत्र मधुश्रियो मधु समधिकं यस्मिंस् तस्मिन् न गन्धसमृद्धयः ।
इति मरुवकं निन्दन् कुन्दादपेतकुतूहलः कमलमधिकं स्मारं स्मारं विषीदति षट्पदः ॥
इह पुरोऽनिलकम्पितविग्रहा मिलति का न वनस्पतिना लता ।
स्मरसि किं सखि कान्तरतोत्सवं न हि घनागमरीतिरुदाहृता ॥
इह बहलितमिन्दोर्दीधितीनां प्रभाभिर् मदविकलचकोरीचञ्चुमुद्राङ्किताभिः ।
रतिभरपरिखेदस्रस्तरार्थं वधूनां करकिसलयलीलाभञ्जनव्यञ्जिकाभिः ॥
इह भुवि कलयति लघुरपि महतां सङ्गेन कमपि महिमानम् ।
लङ्घयति चन्द्रलीनो नभस्तलं हेलया हरिणः ॥
इह भोगं यशः प्रीतिं सभासु बहुमान्यताम् ।
दद्यात् परत्र सुगतिं विद्याधनमनुत्तमम् ॥
इह मधुपवधूनां पीतमल्लीमधूनां विलसति कमनीयः काकलीसंप्रदायः ।
इह नटति सलीलं मञ्जरी वञ्जुलस्य प्रतिपदमुपदिष्टा दक्षिणेनानिलेन ॥
इह महिषविषाणव्यस्तपाषाणपीठ- स्खलनसुलभरोहिद्गर्भिणीभ्रूणहत्याः ।
कुहरविहरमाणप्रौढभल्लूकहिक्का- चयचकितकिरातस्रस्तशस्त्रा वनान्ताः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0